स प᳚प्रथा॒नो अ॒भि पञ्च॒ भूमा᳚ त्रिवन्धु॒रो मन॒सा या᳚तु यु॒क्तः ।
विशो॒ येन॒ गच्छ᳚थो देव॒यन्ती॒ः कुत्रा᳚ चि॒द्याम᳚मश्विना॒ दधा᳚ना ॥
विशो॒ येन॒ गच्छ᳚थो देव॒यन्ती॒ः कुत्रा᳚ चि॒द्याम᳚मश्विना॒ दधा᳚ना ॥
पदपाठः (Word-by-word)
सः । प॒प्र॒था॒नः । अ॒भि । पञ्च᳚ । भूम᳚ । त्रि॒॑व॒न्धु॒रः । मन᳚सा । आ । या॒तु॒ । यु॒क्तः ।
विशः᳚ । येन᳚ । गच्छ᳚थः । दे॒व॒॑यन्तीः᳚ । कुत्र᳚ । चि॒त् । याम᳚म् । अ॒श्वि॒ना॒ । दधा᳚ना ॥
विशः᳚ । येन᳚ । गच्छ᳚थः । दे॒व॒॑यन्तीः᳚ । कुत्र᳚ । चि॒त् । याम᳚म् । अ॒श्वि॒ना॒ । दधा᳚ना ॥
सायणभाष्यम् (Sayana Commentary)
सरथः पञ्च भूम भूतानि सर्वप्राणिनः पप्रथानः प्रथमानः त्रिवन्धुरः वन्धुरमुच्चावचं सारथ्यवस्थानं काष्ठमयं तादृशैस्त्रिभिर्युक्तः मनसास्मत् स्तुत्या युक्तोभ्यायातु येन रथेन देवयन्तीः विशोयजमानान् प्रति गच्छथः हे अश्विना अश्विनौ कुत्राचित् यत्र क्वापि यामं गमनं दधाना धारयन्तौ येन विशोगच्छथः सयात्विति ॥ २ ॥