श्रवणम्

7.2.6
उ॒त योष᳚णे दि॒व्ये म॒ही न᳚ उ॒षासा॒नक्ता᳚ सु॒दुघे᳚व धे॒नुः ।
ब॒र्हि॒षदा᳚ पुरुहू॒ते म॒घोनी॒ आ य॒ज्ञिये᳚ सुवि॒ताय᳚ श्रयेताम् ॥
▶ पदपाठः (Word-by-word)
उ॒त । योष᳚णे॒ इति᳚ । दि॒व्ये इति᳚ । म॒ही इति᳚ । नः॒ । उ॒षसा॒नक्ता᳚ । सु॒दुघा᳚॑इव । धे॒नुः ।
ब॒र्हि॒॑सदा᳚ । पु॒रु॒हू॒ते इति᳚ पु॒रु॒॑हू॒ते । म॒घोनी॒ इति᳚ । आ । य॒ज्ञिये॒ इति᳚ । सु॒वि॒ताय᳚ । श्र॒ये॒ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच योषणे युवत्यौ स्त्रीरूपे वा दिव्ये दिविभवे मही महत्यौ बर्हिषदा बर्हिषि सीदन्त्यौ पुरुहूते बहुभिः स्तुते मघोनी धनवत्यौ यज्ञियेयज्ञार्हे उषासानक्ता अहोरात्रे सुदुघेव धेनुः कामधुग्धेनुरिव नोस्मान् सुविताय कल्याणाय आश्रयेताम् ॥ ६ ॥