श्रवणम्

7.90.4
उ॒च्छन्नु॒षसः᳚ सु॒दिना᳚ अरि॒प्रा उ॒रु ज्योति᳚र्विविदु॒र्दीध्या᳚नाः ।
गव्यं᳚ चिदू॒र्वमु॒शिजो॒ वि व᳚व्रु॒स्तेषा॒मनु᳚ प्र॒दिवः᳚ सस्रु॒रापः᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒च्छन् । उ॒षसः᳚ । सु॒॑दिनाः᳚ । अ॒रि॒प्राः । उ॒रु । ज्योतिः᳚ । वि॒वि॒दुः॒ । दीध्या᳚नाः ।
गव्य᳚म् । चि॒त् । ऊ॒र्वम् । उ॒शिजः᳚ । वि । व॒व्रुः॒ । तेषा᳚म् । अनु᳚ । प्र॒॑दिवः᳚ । सस्रुः᳚ । आपः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

येङ्गिरसोवायुमस्तोषत तेषां अरिप्राः पापरहिता उषसः सुदिनाः शोभनदिनस्य हेतुभूताः सत्यः उच्छन् औच्छन् व्यवासयन् तेच दीध्यानाः दीप्यमानाः सन्तः उरु विस्तीर्णं ज्योतिः सूर्याख्यं विविदुः वायोः प्रसादादलभन्त । अपिच उशिजः कामयमानाः तेअंगिरसः गव्यं चित् गोसङ्घरूपमपि ऊर्वं धनं पणिभिरपत्दृतं विवव्रुः व्यवृण्वन् अलभन्त । तथा तेषामङ्गिरसामर्थाय प्रदिवः पुराण्यः आपः अनुसस्रुः अन्वसरन् अन्वगच्छन् हिताः हिताचरणपरा आसन्नित्यर्थः आवरकस्यासुरस्य वायुनाहननात् असुरेणाहृतानुषः- प्रभृतीन् पुनर्लब्धवन्तइत्यर्थः ॥ ४ ॥ तृतीये छन्दोमे प्रउगशस्त्रे तेसत्येनेत्यैन्द्रवायवस्तृचः सूत्रितंच-तेसत्येनमनसादीध्यानादिविक्षयन्तारजसः पृथिव्यामिति ।