ई॒शा॒नासो॒ ये दध᳚ते॒ स्व᳚र्णो॒ गोभि॒रश्वे᳚भि॒र्वसु᳚भि॒र्हिर᳚ण्यैः ।
इन्द्र᳚वायू सू॒रयो॒ विश्व॒मायु॒रर्व᳚द्भिर्वी॒रैः पृत᳚नासु सह्युः ॥
इन्द्र᳚वायू सू॒रयो॒ विश्व॒मायु॒रर्व᳚द्भिर्वी॒रैः पृत᳚नासु सह्युः ॥
पदपाठः (Word-by-word)
ई॒शा॒नासः᳚ । ये । दध᳚ते । स्वः᳚ । नः॒ । गोभिः᳚ । अश्वे᳚भिः । वसु᳚॑भिः । हिर᳚ण्यैः ।
इन्द्र᳚वायू॒ इति᳚ । सू॒रयः᳚ । विश्व᳚म् । आयुः᳚ । अर्व᳚त्॑भिः । वी॒रैः । पृत᳚नासु । स॒ह्युः॒ ॥
इन्द्र᳚वायू॒ इति᳚ । सू॒रयः᳚ । विश्व᳚म् । आयुः᳚ । अर्व᳚त्॑भिः । वी॒रैः । पृत᳚नासु । स॒ह्युः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्रवायू ईशानासः ईश्वराः प्रभवोयेजनाः नोस्मभ्यं गोभिरश्वेभिरश्वैर्वसुभिर्निवासकैः हिरण्यैश्च सहितं स्वः सुष्ठु अरणीयं सुखं दधते ददति प्रयच्छंति । यद्वा हिरण्यव्यतिरिक्तानि धनानि वसूनि तैर्हिरण्यैश्च सहेत्यर्थः । ते सूरयो दातारः विश्वं व्याप्तमायुरन्नं जीवनं वा शत्रूणां स्वभूतं पृतनासु संग्रामेषु अर्वद्भिरश्वैः वीरैः शूरभटैश्च साधनभूतैः सह्युः अभिभवेयुः यद्वा सहार्थे तृतीया अर्वद्भिः वीरैः पुत्रैश्च सहितं शत्रूणामायुरभिभवेयुरित्यर्थः ॥ ६ ॥