श्रवणम्

7.90.5 समानपद
ते स॒त्येन॒ मन᳚सा॒ दीध्या᳚ना॒ः स्वेन᳚ यु॒क्तास॒ः क्रतु᳚ना वहन्ति ।
इन्द्र᳚वायू वीर॒वाहं॒ रथं᳚ वामीशा॒नयो᳚र॒भि पृक्ष᳚ः सचन्ते ॥
▶ पदपाठः (Word-by-word)
ते । स॒त्येन᳚ । मन᳚सा । दीध्या᳚नाः । स्वेन᳚ । यु॒क्तासः᳚ । क्रतु᳚ना । व॒ह॒न्ति॒ ।
इन्द्र᳚वायू॒ इति᳚ । वी॒र॒॑वाह᳚म् । रथ᳚म् । वा॒म् । ई॒शा॒नयोः᳚ । अ॒भि । पृक्षः᳚ । स॒च॒न्ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते प्रसिद्धाः सत्येन यथार्थेन मनसा मननीयेन स्तोत्रेण युक्ताः दीध्याना दीप्यमानाः स्वेन स्वकीयत्वे विहितेन क्रतुना कर्मणा नित्यनै- मित्तिकात्मना युक्तासोयुक्ताः एवंभूताः यजमानाः हे इन्द्रवायु वीरवाहं वीरैः विशेषेण ईरयितृभिः स्तोतृभीः वहनीयं प्रापणीयम् । यद्वा वीरैरश्वैर्वहनीयं ईशानयोरीश्वरयोर्वां युवयोः स्वभूतं रथं वहन्ति स्वं स्वं यज्ञं प्रापयन्ति । तत्र च पृक्षोन्नानि हविर्लक्षणानि अभिसचन्ते यवामभिसेवन्ते ॥ ५ ॥