श्रवणम्

7.102.2
यो गर्भ॒मोष᳚धीनां॒ गवां᳚ कृ॒णोत्यर्व᳚ताम् ।
प॒र्जन्य᳚ः पुरु॒षीणा᳚म् ॥
▶ पदपाठः (Word-by-word)
यः । गर्भ᳚म् । ओष᳚धीनाम् । गवा᳚म् । कृ॒णोति᳚ । अर्व᳚ताम् ।
प॒र्जन्यः᳚ । पु॒रु॒षीणा᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः पर्जन्यः ओषधीनां व्रीह्यादीनां गवां अर्वतां अर्वतीनां वडवानां पुरुषीणां नारीणां च यः पर्जन्यः गर्भं प्रसूतिहेतुं बीजं उदकरूपं कृणोतिकरोति तस्मै पर्जन्यायेत्युत्तरत्र संबन्धः ॥ २ ॥