दि॒वो रु॒क्म उ᳚रु॒चक्षा॒ उदे᳚ति दू॒रेअ᳚र्थस्त॒रणि॒र्भ्राज᳚मानः ।
नू॒नं जना॒ः सूर्ये᳚ण॒ प्रसू᳚ता॒ अय॒न्नर्था᳚नि कृ॒णव॒न्नपां᳚सि ॥
नू॒नं जना॒ः सूर्ये᳚ण॒ प्रसू᳚ता॒ अय॒न्नर्था᳚नि कृ॒णव॒न्नपां᳚सि ॥
पदपाठः (Word-by-word)
दि॒वः । रु॒क्मः । उ॒रु॒॑चक्षाः᳚ । उत् । ए॒ति॒ । दू॒रे॑अ᳚र्थः । त॒रणिः᳚ । भ्राज᳚मानः ।
नू॒नम् । जनाः᳚ । सूर्ये᳚ण । प्र॑सू᳚ताः । अय᳚न् । अर्था᳚नि । कृ॒णव᳚न् । अपां᳚सि ॥
नू॒नम् । जनाः᳚ । सूर्ये᳚ण । प्र॑सू᳚ताः । अय᳚न् । अर्था᳚नि । कृ॒णव᳚न् । अपां᳚सि ॥
सायणभाष्यम् (Sayana Commentary)
अयं सूर्योरुक्मोरोचमानः उरुचक्षाः प्रभूततेजाश्चसन् दिवोन्तरिक्षादुदेति यद्वा दिवोन्तरिक्षस्य रुक्मआभरणस्थानीयः कीदृशोयं दूरेअर्थः दुरेगन्ता अर्थोर्तेः दुरे प्रार्थ्यमानोवा तरणिस्तारकः भ्राजमानोदीप्यमानः सन्नुदेति नूनं निश्चयं जनाः सर्वे प्राणिनः सूर्येण प्रेरकेण देवेन प्रसूताः अनुज्ञाताः प्रेरिताः सन्तःअयन् अर्थानि गंतव्यानि अनुष्ठेयानि अपांसि कर्माणि कृणवन् कुर्वन्ति ॥ ४ ॥