श्रवणम्

7.63.5
यत्रा᳚ च॒क्रुर॒मृता᳚ गा॒तुम᳚स्मै श्ये॒नो न दीय॒न्नन्वे᳚ति॒ पाथः᳚ ।
प्रति᳚ वां॒ सूर॒ उदि᳚ते विधेम॒ नमो᳚भिर्मित्रावरुणो॒त ह॒व्यैः ॥
▶ पदपाठः (Word-by-word)
यत्र᳚ । च॒क्रुः । अ॒मृताः᳚ । गा॒तुम् । अ॒स्मै॒ । श्ये॒नः । न । दीय᳚न् । अनु᳚ । ए॒ति॒ । पाथः᳚ ।
प्रति᳚ । वा॒म् । सूरे᳚ । उत्॑इ᳚ते । वि॒धे॒म॒ । नमः᳚॑भिः । मि॒त्रा॒व॒रु॒णा॒ । उ॒त । ह॒व्यैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत्र यस्मिन्नन्तरिक्षे अमृता अमरणधर्माणः पूर्वेदेवा अस्मै सूर्याय गातुं मार्गं चक्रुः अकुर्वन् तत्पाथोन्तरिक्षं अन्वेति अनुगच्छति कइव दीयन् गच्छन् श्येनोन शंसनीयगमनोगृध्रइव अयमर्धर्चः सौर्यइत्युक्तम् हे मित्रावरुणा मित्रावरुणौ वां युवां सूरे सूर्ये उदिते सति प्रातःसवने नमोभिर्नमस्कारैः स्तुतिभिः उतापिच हव्यैः हविर्भिश्च प्रतिविधेम परिचरेम ॥ ५ ॥