मेन्द्रो᳚ नो॒ विष्णु᳚र्म॒रुत॒ः परि᳚ ख्यन्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
पदपाठः (Word-by-word)
मा । इन्द्रः᳚ । नः॒ । विष्णुः᳚ । म॒रुतः᳚ । परि᳚ । ख्य॒न् । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने उपलक्षणमेतत् हे इन्द्राग्नी एताः इष्टीः इमान्यज्ञान् आशुषाणासः आशु शीघ्रं संभजमानावयं युवोर्युवयोः स्वभूतान्वाजानन्नानि सचासह युगपदेव अभ्यश्याम अभिप्राप्नुयाम अपिच इन्द्रोविष्णुर्मरुतश्च नोस्मान् मापरिख्यन् अस्मान्परित्यज्यान्यान् माद्राक्षुः सर्वदा- स्मानेव पश्यन्तु । अन्यद्गतम् ॥ ८ ॥
इयंवामिति द्वादशर्चं पञ्चमं सूक्तं वसिष्ठस्यार्षमैन्द्राग्नं द्वादशी अनुष्टुप् शिष्टागायत्र्यः तथाचानुक्रान्तम्-इयंवांद्वादशगायत्रमन्त्यानु- ष्टुबिति । ज्योतिष्टोमे प्रातःसवनेच्छावाकशस्त्रे आदितोनवर्चः शस्यन्ते सूत्र्यतेहि-इयंवामस्यमन्मनइति नवेति । आभिप्लविकेषूक्थ्येषु स्तोमेषु वृद्धावच्छावाकस्य प्रातःसवने इदंसूक्तमावापार्थम् उत्तमावर्जम् । सूत्रितश्च-इयंवामस्यमन्मनइत्येकादशेति । चातुर्विंशिकेहनि प्रातःसवने एतस्यैवाद्यस्तृचः सूत्रितंच-इयंवामस्यमन्मनइन्द्राग्नीयुवामिमइति ।