ता सा᳚न॒सी श᳚वसाना॒ हि भू॒तं सा᳚कं॒वृधा॒ शव᳚सा शूशु॒वांसा᳚ ।
क्षय᳚न्तौ रा॒यो यव᳚सस्य॒ भूरे᳚ः पृ॒ङ्क्तं वाज᳚स्य॒ स्थवि᳚रस्य॒ घृष्वे᳚ः ॥
क्षय᳚न्तौ रा॒यो यव᳚सस्य॒ भूरे᳚ः पृ॒ङ्क्तं वाज᳚स्य॒ स्थवि᳚रस्य॒ घृष्वे᳚ः ॥
पदपाठः (Word-by-word)
ता । सा॒न॒सी इति᳚ । श॒व॒सा॒ना॒ । हि । भू॒तम् । सा॒क॒म्॑वृधा᳚ । शव᳚सा । शू॒शु॒॑वांसा᳚ ।
क्षय᳚न्तौ । रा॒यः । यव᳚सस्य । भूरेः᳚ । पृ॒ङ्क्तम् । वाज᳚स्य । स्थवि᳚रस्य । घृष्वेः᳚ ॥
क्षय᳚न्तौ । रा॒यः । यव᳚सस्य । भूरेः᳚ । पृ॒ङ्क्तम् । वाज᳚स्य । स्थवि᳚रस्य । घृष्वेः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्राग्नी ता तौ तादृशौ सानसी सर्वैः संभजनीयौ युवां शवसाना शवोबलं तद्वदाचरन्तौ हि खलु भूतं बलमिव शत्रूणां भंजकावास्तामित्यर्थः । कीदृशौ सन्तौ साकं वृधासह प्रवृद्धौ शवसा बलेन शूश्कुवांसा वर्धमानौ तथा रायोधनस्य भूरेर्बहुलस्य यवसस्य अन्नस्य क्षयन्तावीश्वरौ एवंविधौ युवां स्थविरस्य स्थूलस्य घृष्वेः शत्रूणां घर्षकस्य वाजस्यान्नस्य क्रियाग्रहणमपि कर्तव्यमिति कर्मणः सम्प्रदानत्वाच्चतुर्थ्यर्थेषष्ठी । ईदृशमन्नं पृंक्तं संयोजयतं अस्मभ्यं प्रयच्छतमित्यर्थः ॥ २ ॥