श्रवणम्

7.41.4
उ॒तेदानीं॒ भग᳚वन्तः स्यामो॒त प्र᳚पि॒त्व उ॒त मध्ये॒ अह्ना᳚म् ।
उ॒तोदि᳚ता मघव॒न्त्सूर्य᳚स्य व॒यं दे॒वानां᳚ सुम॒तौ स्या᳚म ॥
▶ पदपाठः (Word-by-word)
उ॒त । इ॒दानी᳚म् । भग᳚॑वन्तः । स्या॒म॒ । उ॒त । प्र॒॑पि॒त्वे । उ॒त । मध्ये᳚ । अह्ना᳚म् ।
उ॒त । उत्॑इ᳚ता । म॒घ॒॑व॒न् । सूर्य᳚स्य । व॒यम् । दे॒वाना᳚म् । सु॒॑म॒तौ । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच इदानीं वयं भगवन्तः स्याम हे भग भगेन त्वया स्वामिनायुक्ता भवेम यद्वा भगवन्तोधनवन्तः स्याम उतापिच प्रपित्वे अह्नां प्राप्ते पूर्वाह्वे भगवन्तः स्याम उतापिच अह्नां दिवसानां मध्ये मह्याह्ने भगवन्तः स्याम उतापिच हे मघवन् धनवन् भगदेव सूर्यस्य सर्वस्य प्रेरकस्य देवस्य उदिता उदितौ उदयेसति वयं त्वदनुग्रहात् देवानामिन्द्रादीनां सुमतौ अनुग्रहबुद्धौ स्याम भवेम ॥ ४ ॥