श्रवणम्

7.41.7
अश्वा᳚वती॒र्गोम᳚तीर्न उ॒षासो᳚ वी॒रव᳚ती॒ः सद᳚मुच्छन्तु भ॒द्राः ।
घृ॒तं दुहा᳚ना वि॒श्वत॒ः प्रपी᳚ता यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
अश्व᳚॑वतीः । गो॑म᳚तीः । नः॒ । उ॒षसः᳚ । वी॒र॑व᳚तीः । सद᳚म् । उ॒च्छ॒न्तु॒ । भ॒द्राः ।
घृ॒तम् । दुहा᳚नाः । वि॒श्वतः᳚ । प्र॑पी᳚ताः । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

भद्राः भजनीयाः उषसः उषोदेवता अश्वावतीरश्ववत्यः अश्वसहिताः सत्यः गोमतीर्गोमत्यश्च वीरवतीर्वीरवत्यः पुत्रादिजनोपेताश्च भवंत्यः नोस्मभ्यं सदं सर्वदा उच्छन्तु व्युच्छन्तु नैशंतमोविवासयन्तु । कीदृश्यः घृतमुदकं दुहानाः सिंचंत्यः विश्वतः सर्वैर्गुणैः प्रपीताः प्रवृद्धाः एवंभूताउषसस्तम उच्छन्तु अस्मिन् सूक्ते प्रतिपादिताः हे सर्वे देवाः यूयं नोस्मान् सदा सर्वदा स्वस्तिभिः कल्याणैः पात पालयत ॥ ७ ॥

प्रब्रह्माणइति षळृचं नवमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वदेवं अत्रानुक्रान्तं-प्रब्रह्माणः षड्वैश्वदेवंत्विति । सूक्तविनियोगोलैंगिकः । तृतीये छन्दोमे प्रउगशस्त्रे प्रब्रह्माणइति वैश्वदेवस्तृचः सूत्रितंच-प्रब्रह्माणोअंगिरसोनक्षन्त सरस्वतीं देवयन्तोहवन्तइति ।