सम᳚ध्व॒रायो॒षसो᳚ नमन्त दधि॒क्रावे᳚व॒ शुच᳚ये प॒दाय᳚ ।
अ॒र्वा॒ची॒नं व᳚सु॒विदं॒ भगं᳚ नो॒ रथ᳚मि॒वाश्वा᳚ वा॒जिन॒ आ व᳚हन्तु ॥
अ॒र्वा॒ची॒नं व᳚सु॒विदं॒ भगं᳚ नो॒ रथ᳚मि॒वाश्वा᳚ वा॒जिन॒ आ व᳚हन्तु ॥
पदपाठः (Word-by-word)
सम् । अ॒ध्व॒राय᳚ । उ॒षसः᳚ । न॒म॒न्त॒ । द॒धि॒क्रावा᳚॑इव । शुच᳚ये । प॒दाय᳚ ।
अ॒र्वा॒ची॒नम् । व॒सु॒॑विद᳚म् । भग᳚म् । नः॒ । रथ᳚म्॑इव । अश्वाः᳚ । वा॒जिनः᳚ । आ । व॒ह॒न्तु॒ ॥
अ॒र्वा॒ची॒नम् । व॒सु॒॑विद᳚म् । भग᳚म् । नः॒ । रथ᳚म्॑इव । अश्वाः᳚ । वा॒जिनः᳚ । आ । व॒ह॒न्तु॒ ॥
सायणभाष्यम् (Sayana Commentary)
शुचये शुद्धाय गमनयोग्याय पदाय स्थानाय दधिक्रावेव यथा तथा अश्वाः उषसोउषोदेवता अध्वराय अस्मदीयाय यागाय संनमन्त संग- च्छन्तु वाजिनोवेगवन्तोश्वाः रथमिव रथं यथा तथा उषसः अर्वाचीनं अस्मदभिमुखं वसुविदं धनस्य प्रापकं भगं देवं नोस्मान् प्रति आवहन्तु आनयन्तु ॥ ६ ॥