श्रवणम्

7.97.6
तं श॒ग्मासो᳚ अरु॒षासो॒ अश्वा॒ बृह॒स्पतिं᳚ सह॒वाहो᳚ वहन्ति ।
सह᳚श्चि॒द्यस्य॒ नील᳚वत्स॒धस्थं॒ नभो॒ न रू॒पम᳚रु॒षं वसा᳚नाः ॥
▶ पदपाठः (Word-by-word)
तम् । श॒ग्मासः᳚ । अ॒रु॒षासः᳚ । अश्वाः᳚ । बृह॒स्पति᳚म् । स॒ह॒॑वाहः᳚ । व॒ह॒न्ति॒ ।
सहः᳚ । चि॒त् । यस्य᳚ । नील᳚॑वत् । स॒ध॑स्थ᳚म् । नभः᳚ । न । रू॒पम् । अ॒रु॒षम् । वसा᳚नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

शग्मासः शग्माः सुखकराः शक्क्तावा अरुषासः आरोचमानाः सहवाहः संहत्यवाहकाअश्वाः तं वृहस्पतिं वहन्ति वहन्तु । यस्य बृहस्पतेः सहश्चित् बलंच भवति नीलवत् नीलं निलयोनिवासः तद्युक्तं सधस्थं सहस्थानंच यस्य तं बृहस्पतिमित्यन्वयः कीदृशाअश्वाः नभोन आदित्यमिव अरुषं आरोचमानं रूपं वसानाः धारयन्तः ॥ ६ ॥