तमा नो᳚ अ॒र्कम॒मृता᳚य॒ जुष्ट᳚मि॒मे धा᳚सुर॒मृता᳚सः पुरा॒जाः ।
शुचि᳚क्रन्दं यज॒तं प॒स्त्या᳚नां॒ बृह॒स्पति᳚मन॒र्वाणं᳚ हुवेम ॥
शुचि᳚क्रन्दं यज॒तं प॒स्त्या᳚नां॒ बृह॒स्पति᳚मन॒र्वाणं᳚ हुवेम ॥
पदपाठः (Word-by-word)
तम् । आ । नः॒ । अ॒र्कम् । अ॒मृता᳚य । जुष्ट᳚म् । इ॒मे । धा॒सुः॒ । अ॒मृता᳚सः । पु॒रा॒॑जाः ।
शुचि᳚॑क्रन्दम् । य॒ज॒तम् । प॒स्त्या᳚नाम् । बृह॒स्पति᳚म् । अ॒न॒र्वाण᳚म् । हु॒वे॒म॒ ॥
शुचि᳚॑क्रन्दम् । य॒ज॒तम् । प॒स्त्या᳚नाम् । बृह॒स्पति᳚म् । अ॒न॒र्वाण᳚म् । हु॒वे॒म॒ ॥
सायणभाष्यम् (Sayana Commentary)
तं सर्वत्रभोक्तव्यतयाप्रसिद्धं अमृताय अमरणत्वाय जीवनाय जुष्टं पर्याप्तमर्कमर्चनसाधनमन्नं पुराजाः पुराजाताइमे अमृतासः अमरणादेवाः बृहस्पतेराज्ञया नोस्मभ्यं आधासुः प्रदद्युः । वयं च शुचिक्रन्दं शुद्धस्तोत्रं पस्त्यानां पस्त्यमितिगृहनाम तेन तद्वन्तोलक्ष्यन्ते गृहिणां यजतं यष्टव्यं अनर्वाणं अप्रत्यृतं केनाप्यप्रतिगतं बृहस्पतिं बृहतां पालकं देवं हुवेम आह्वयाम स्तुयेम वा ॥ ५ ॥