य॒ज्ञे दि॒वो नृ॒षद᳚ने पृथि॒व्या नरो॒ यत्र᳚ देव॒यवो॒ मद᳚न्ति ।
इन्द्रा᳚य॒ यत्र॒ सव᳚नानि सु॒न्वे गम॒न्मदा᳚य प्रथ॒मं वय᳚श्च ॥
इन्द्रा᳚य॒ यत्र॒ सव᳚नानि सु॒न्वे गम॒न्मदा᳚य प्रथ॒मं वय᳚श्च ॥
पदपाठः (Word-by-word)
य॒ज्ञे । दि॒वः । नृ॒॑सद᳚ने । पृ॒थि॒व्याः । नरः᳚ । यत्र᳚ । दे॒व॒॑यवः᳚ । मद᳚न्ति ।
इन्द्रा᳚य । यत्र᳚ । सव᳚नानि । सु॒न्वे । गम᳚त् । मदा᳚य । प्र॒थ॒मम् । वयः᳚ । च॒ ॥
इन्द्रा᳚य । यत्र᳚ । सव᳚नानि । सु॒न्वे । गम᳚त् । मदा᳚य । प्र॒थ॒मम् । वयः᳚ । च॒ ॥
सायणभाष्यम् (Sayana Commentary)
यत्र यस्मिन्यज्ञे देवयवोदेवान् कामयमाना नरोनेतारऋत्विजोमदन्ति हष्यंति यत्र यस्मिंश्च सवनानि अभिषोतव्याः सोमाः इन्द्राय इन्द्रार्थं सुन्वे अभिषूयन्ते पृथिव्याः संबन्धिनि नृषदने नृणां नेतॄणां सदनभूते तस्मिन्यज्ञे प्रथमं सर्वेभ्योदेवेभ्यः पूर्वं दिवोद्युलोकात् इन्द्रः गमत् आगच्छतु किमर्थं मदाय मदार्थं सोमं पातुमित्यर्थः तथा वयश्च गन्तारः तदीयाअश्वाश्च गमत् आगच्छन्तु ॥ १ ॥