त्वामी᳚ळते अजि॒रं दू॒त्या᳚य ह॒विष्म᳚न्त॒ः सद॒मिन्मानु᳚षासः ।
यस्य᳚ दे॒वैरास᳚दो ब॒र्हिर॒ग्ने॑हा᳚न्यस्मै सु॒दिना᳚ भवन्ति ॥
यस्य᳚ दे॒वैरास᳚दो ब॒र्हिर॒ग्ने॑हा᳚न्यस्मै सु॒दिना᳚ भवन्ति ॥
पदपाठः (Word-by-word)
त्वाम् । ई॒ळ॒ते॒ । अ॒जि॒रम् । दू॒त्या᳚य । ह॒विष्म᳚न्तः । सद᳚म् । इत् । मानु᳚षासः ।
यस्य᳚ । दे॒वैः । आ । अस᳚दः । ब॒र्हिः । अ॒ग्ने॒ । अहा᳚नि । अ॒स्मै॒ । सु॒॑दिना᳚ । भ॒व॒न्ति॒ ॥
यस्य᳚ । दे॒वैः । आ । अस᳚दः । ब॒र्हिः । अ॒ग्ने॒ । अहा᳚नि । अ॒स्मै॒ । सु॒॑दिना᳚ । भ॒व॒न्ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने अजिरं प्रगामिनं त्वां मानुषासो मानुषाः हविष्मन्तो यजमानाः सदमित् सदैव दूत्याय दूतकर्मणे हविर्वहनाय ईळते याचन्ते । किमर्थं इत्यतआह यस्य हविष्मतो बर्हिर्देवैःसार्धं आसदः त्वं अधितिष्ठसि अस्मै हविष्मते अहानि सुदिना सुदिनानि शोभनदिनानि भवन्ति ॥ २ ॥