श्रवणम्

7.11.4
अ॒ग्निरी᳚शे बृह॒तो अ᳚ध्व॒रस्या॒ग्निर्विश्व᳚स्य ह॒विषः᳚ कृ॒तस्य᳚ ।
क्रतुं॒ ह्य᳚स्य॒ वस᳚वो जु॒षन्ताथा᳚ दे॒वा द᳚धिरे हव्य॒वाह᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । ई॒शे॒ । बृ॒ह॒तः । अ॒ध्व॒रस्य᳚ । अ॒ग्निः । विश्व᳚स्य । ह॒विषः᳚ । कृ॒तस्य᳚ ।
क्रतु᳚म् । हि । अ॒स्य॒ । वस᳚वः । जु॒षन्त᳚ । अथ᳚ । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒॑वाह᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

बृहतो महतो अध्वरस्य कौटिल्यरहितस्य यज्ञस्य अग्निरीशे ईष्टे विश्वस्य सर्वस्य कृतस्य संस्कृतस्य हविषः चाग्निरेवेष्टे हियस्मादस्याग्नेः क्रतुं कर्म वसवो देवाः जुषन्त सेवन्ते अथापि च देवाः अग्निं हव्यवाहं हव्यानां वोढारं दधिरे चक्रिरे इत्यर्थः ॥ ४ ॥