श्रवणम्

7.11.5
आग्ने᳚ वह हवि॒रद्या᳚य दे॒वानिन्द्र᳚ज्येष्ठास इ॒ह मा᳚दयन्ताम् ।
इ॒मं य॒ज्ञं दि॒वि दे॒वेषु᳚ धेहि यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
आ । अ॒ग्ने॒ । व॒ह॒ । ह॒विः॒॑अद्या᳚य । दे॒वान् । इन्द्र᳚॑ज्येष्ठासः । इ॒ह । मा॒द॒य॒न्ता॒म् ।
इ॒मम् । य॒ज्ञम् । दि॒वि । दे॒वेषु᳚ । धे॒हि॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने हविरघाय हविषां भरणाय देवान् आवह । किमर्थं इत्यतआह इहास्मिन् यज्ञे इन्द्रज्येष्ठास इन्द्रप्रमुखादेवाः मादयन्तां इमं यज्ञं इदं यष्टव्यं हविः दिविस्थितेषु देवेषु धेहि निधेहि देवान्वा इहानय इदं हविर्वा देवेषु नयेति भावः । अन्तिमः पादोव्याख्या- तचरः ॥ ५ ॥

अगन्ममहेति तृचात्मकं द्वादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयं तथाचानुक्रान्तं अगन्मतृचमिति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तोवि- नियोगः । व्यूह्ळे दशरात्रे नवमेहनि इदं सूक्तमा ज्यशस्त्रं सूत्रितंच-तृतीयस्यागन्ममहेंत्याज्यमिति ।