त्रिश्चि᳚द॒क्तोः प्र चि᳚कितु॒र्वसू᳚नि॒ त्वे अ॒न्तर्दा॒शुषे॒ मर्त्या᳚य ।
म॒नु॒ष्वद᳚ग्न इ॒ह य᳚क्षि दे॒वान्भवा᳚ नो दू॒तो अ᳚भिशस्ति॒पावा᳚ ॥
म॒नु॒ष्वद᳚ग्न इ॒ह य᳚क्षि दे॒वान्भवा᳚ नो दू॒तो अ᳚भिशस्ति॒पावा᳚ ॥
पदपाठः (Word-by-word)
त्रिः । चि॒त् । अ॒क्तोः । प्र । चि॒कि॒तुः॒ । वसू᳚नि । त्वे इति᳚ । अ॒न्तः । दा॒शुषे᳚ । मर्त्या᳚य ।
म॒नु॒ष्वत् । अ॒ग्ने॒ । इ॒ह । य॒क्षि॒ । दे॒वान् । भव᳚ । नः॒ । दू॒तः । अ॒भि॒श॒स्ति॒॑पावा᳚ ॥
म॒नु॒ष्वत् । अ॒ग्ने॒ । इ॒ह । य॒क्षि॒ । दे॒वान् । भव᳚ । नः॒ । दू॒तः । अ॒भि॒श॒स्ति॒॑पावा᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने त्वे त्वयि अन्तर्मध्ये अक्तोअह्नः यद्यपि अक्तुरिति रात्रेर्नाम तथाप्यत्र अज्यन्ते व्यज्यन्ते रूपादीन्यस्मिन्नित्यह्रोनाम त्रिस्त्रिवारं त्रिषु सवनेषु वसूनि हवींषि दाशुषे हविषां प्रदात्रे मर्त्याय मनुष्याय तदर्थमित्यर्थः प्रचिकितुः प्रवेदयन्ति ऋत्विजः । यद्वा अक्तोरह्नि त्रिः त्रीनग्निमश्वमजं च त्वय्यन्तर्निहितानि प्रचिकितुरविदन्नित्यर्थः । अपि च मनुष्वत् मनोरिव इह ममास्मिन्यज्ञे दूतस्त्वं देवान् यक्षि यज । नोस्माकमभिशस्तिपावा अभिशस्तेः अभिशंसकात् शात्रवात् पावा रक्षिता भव चिदिति पूरणः ॥ ३ ॥