च॒नि॒ष्टं दे᳚वा॒ ओष᳚धीष्व॒प्सु यद्यो॒ग्या अ॒श्नवै᳚थे॒ ऋषी᳚णाम् ।
पु॒रूणि॒ रत्ना॒ दध᳚तौ॒ न्य१॒᳚स्मे अनु॒ पूर्वा᳚णि चख्यथुर्यु॒गानि᳚ ॥
पु॒रूणि॒ रत्ना॒ दध᳚तौ॒ न्य१॒᳚स्मे अनु॒ पूर्वा᳚णि चख्यथुर्यु॒गानि᳚ ॥
पदपाठः (Word-by-word)
च॒नि॒ष्टम् । दे॒वौ॒ । ओष᳚धीषु । अ॒प्॑सु । यत् । यो॒ग्याः । अ॒श्नवै᳚थे॒ इति᳚ । ऋषी᳚णाम् ।
पु॒रूणि᳚ । रत्ना᳚ । दध᳚तौ । नि । अ॒स्मे इति᳚ । अनु᳚ । पूर्वा᳚णि । च॒ख्य॒थुः॒ । यु॒गानि᳚ ॥
पु॒रूणि᳚ । रत्ना᳚ । दध᳚तौ । नि । अ॒स्मे इति᳚ । अनु᳚ । पूर्वा᳚णि । च॒ख्य॒थुः॒ । यु॒गानि᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे देवा देवौ युवां ओषधीषु ओषधिविकारान् चरुपुरोडाशादिकान् अप्सु सोमरसान् चनिष्टं अत्यन्तकमनीयतमंकामयेथामित्यर्थः । यद्यस्माद्योग्या युवयोरुचिता ओषधीरपश्च ऋषीणां संबन्धिनीः अश्नवैथे व्याप्नुथः तस्मादस्मदीयाअपि कामयेथामित्यर्थः । यद्वा ऋषीणामस्माकमिति पूजार्थं बहुवचनम् यद्यस्मादोषधीष्वप्सु च चनिष्टं योग्याः स्तुतीश्चाश्नवैथे तस्मादस्मे अस्मासु पुरूणि बहूनि रत्ना रमणीयानि धनानि निदधतौ पूर्वाणि युगानि मिथुनानि जायापतीरूपाणि अनुचख्यथुः ख्यातवन्तौ अनुकृष्टवन्तावनुग्रहार्थम् ॥ ४ ॥