श्रवणम्

7.70.2
सिष᳚क्ति॒ सा वां᳚ सुम॒तिश्चनि॒ष्ठाता᳚पि घ॒र्मो मनु᳚षो दुरो॒णे ।
यो वां᳚ समु॒द्रान्त्स॒रित॒ः पिप॒र्त्येत᳚ग्वा चि॒न्न सु॒युजा᳚ युजा॒नः ॥
▶ पदपाठः (Word-by-word)
सिस᳚क्ति । सा । वा॒म् । सु॒॑म॒तिः । चनि᳚ष्ठा । अता᳚पि । घ॒र्मः । मनु᳚षः । दु॒रो॒णे ।
यः । वा॒म् । स॒मु॒द्रान् । स॒रितः᳚ । पिप᳚र्ति । एत᳚॑ग्वा । चि॒त् । न । सु॒॑युजा᳚ । यु॒जा॒नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सा सुमतिः अस्माभिः क्रियमाणा शोभना स्तुतिश्चनिष्ठा कमनीयतमा अतिशयेनान्नवती वा वां युवां सिषक्ति सेवते किञ्च घर्मः प्रवर्ग्यश्च मनुषोमनुष्यस्य यजमानस्य दुरोणे यागगृहे अतापि तप्तोभूत् यद्घ्राँइत्यतपत्तद्घर्मस्यघर्मत्वमितिश्रुतिः । यज्ञस्य शिरःस्थानीयत्वाद- स्ययोघर्मोवां युवां प्राप्नुवन्निति शेषः समुद्रान् सरितश्च पिपर्ति पूरयति वृष्टिद्वारा एतग्वाचिन्न चिदितिपूरणः अश्वाविव यथा सुयुजा सुष्ठुयुक्तौ रथे भवतस्तथेत्यर्थः नेत्युपमार्थे तद्वद्युवां यज्ञे युजानोयोजयन्यज्ञः सएवं करोति ॥ २ ॥