यो वां᳚ य॒ज्ञो ना᳚सत्या ह॒विष्मा᳚न्कृ॒तब्र᳚ह्मा सम॒र्यो॒३॒᳚ भवा᳚ति ।
उप॒ प्र या᳚तं॒ वर॒मा वसि᳚ष्ठमि॒मा ब्रह्मा᳚ण्यृच्यन्ते यु॒वभ्या᳚म् ॥
उप॒ प्र या᳚तं॒ वर॒मा वसि᳚ष्ठमि॒मा ब्रह्मा᳚ण्यृच्यन्ते यु॒वभ्या᳚म् ॥
पदपाठः (Word-by-word)
यः । वा॒म् । य॒ज्ञः । ना॒स॒त्या॒ । ह॒विष्मा᳚न् । कृ॒त॑ब्र᳚ह्मा । स॒॑म॒र्यः᳚ । भवा᳚ति ।
उप᳚ । प्र । या॒त॒म् । वर᳚म् । आ । वसि᳚ष्ठम् । इ॒मा । ब्रह्मा᳚णि । ऋ॒च्य॒न्ते॒ । यु॒व॑भ्या᳚म् ॥
उप᳚ । प्र । या॒त॒म् । वर᳚म् । आ । वसि᳚ष्ठम् । इ॒मा । ब्रह्मा᳚णि । ऋ॒च्य॒न्ते॒ । यु॒व॑भ्या᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे नासत्या अश्विनौ वां युवयोर्योयज्ञोयजमानः समर्यः ऋत्विग्रूपैर्मर्त्यैः सहितः सन् हविष्मान् हविषायुक्तः कृतब्रह्मा कृतस्तोत्ररूपकर्मा भवति भवति तं वरं वरणीयं वसिष्ठं आ उपप्रयातं प्रकर्षेणोपागच्छतम् । इमा इमानि ब्रह्माणि मन्त्रजातानि युवभ्यां युवाभ्यामर्थाय आगमनाय ऋच्यन्ते सूयन्ते क्रियन्ते इत्यर्थः ॥ ६ ॥