श्रवणम्

7.70.5
शु॒श्रु॒वांसा᳚ चिदश्विना पु॒रूण्य॒भि ब्रह्मा᳚णि चक्षाथे॒ ऋषी᳚णाम् ।
प्रति॒ प्र या᳚तं॒ वर॒मा जना᳚या॒स्मे वा᳚मस्तु सुम॒तिश्चनि᳚ष्ठा ॥
▶ पदपाठः (Word-by-word)
शु॒श्रु॒॑वांसा᳚ । चि॒त् । अ॒श्वि॒ना॒ । पु॒रूणि᳚ । अ॒भि । ब्रह्मा᳚णि । च॒क्षा॒थे॒ इति᳚ । ऋषी᳚णाम् ।
प्रति᳚ । प्र । या॒त॒म् । वर᳚म् । आ । जना᳚य । अ॒स्मे इति᳚ । वा॒म् । अ॒स्तु॒ । सु॒॑म॒तिः । चनि᳚ष्ठा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ चिदितिपूरणः युवां शुश्नुवांसा श्रुतवन्तौ सन्तौ पुरूणि बहूनि ब्रह्माणि परिवृढानि कर्माणि स्तुतिलक्षणानि ऋषीणामस्माकं संबन्धीनि अभिचक्षाथे अभिपश्यथोयुवाम् अतोजनाय यजमानस्य मम वरं यज्ञं प्रति प्रायातं वाम् । युवयोश्चनिष्ठा उक्तलक्षणा सुमतिरनुग्रहमतिरस्मे अस्मास्वस्तु भवतु ॥ ५ ॥