यानि॒ स्थाना᳚न्यश्विना द॒धाथे᳚ दि॒वो य॒ह्वीष्वोष᳚धीषु वि॒क्षु ।
नि पर्व᳚तस्य मू॒र्धनि॒ सद॒न्तेषं॒ जना᳚य दा॒शुषे॒ वह᳚न्ता ॥
नि पर्व᳚तस्य मू॒र्धनि॒ सद॒न्तेषं॒ जना᳚य दा॒शुषे॒ वह᳚न्ता ॥
पदपाठः (Word-by-word)
यानि᳚ । स्थाना᳚नि । अ॒श्वि॒ना॒ । द॒धाथे॒ इति᳚ । दि॒वः । य॒ह्वीषु᳚ । ओष᳚धीषु । वि॒क्षु ।
नि । पर्व᳚तस्य । मू॒र्धनि᳚ । सद᳚न्ता । इष᳚म् । जना᳚य । दा॒शुषे᳚ । वह᳚न्ता ॥
नि । पर्व᳚तस्य । मू॒र्धनि᳚ । सद᳚न्ता । इष᳚म् । जना᳚य । दा॒शुषे᳚ । वह᳚न्ता ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनाऽश्विनौ युवां दिवोद्युलोकादागत्य यानि स्थानानि दधाथे कुरुथः कुत्रेति उच्यते यह्वीषु महतीषु ओषधीषु विक्षु यजमानेषु च । तौ युवां पर्वतस्य मेघस्यान्तरिक्षस्यवा मूर्धनि स्थाने निसदन्ता निषीदन्तौ इषमन्नं दाशुषे हविर्दात्रे जनाय यजमानाय वहन्ता प्रापयन्तौ भवतमितिशेषः ॥ ३ ॥