श्रवणम्

7.17.4
स्व॒ध्व॒रा क᳚रति जा॒तवे᳚दा॒ यक्ष᳚द्दे॒वा{4} अ॒मृता᳚न्पि॒प्रय᳚च्च ॥
▶ पदपाठः (Word-by-word)
सु॒॑अ॒ध्व॒रा । क॒र॒ति॒ । जा॒त॑वे᳚दाः । यक्ष᳚त् । दे॒वान् । अ॒मृता᳚न् । पि॒प्रय᳚त् । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जातवेदाः जातधनोग्निः अमृतान् मरणरहितान् देवान् स्वध्वरा स्वध्वरान् शोभनयज्ञान् करति करोतु यक्षत् हविषा यजतु च पिप्रयत् स्तोत्रैः प्रीणयतुच ॥ ४ ॥