श्रवणम्

7.17.2
उ॒त द्वार᳚ उश॒तीर्वि श्र᳚यन्तामु॒त दे॒वा{4} उ᳚श॒त आ व᳚हे॒ह ॥
▶ पदपाठः (Word-by-word)
उ॒त । द्वारः᳚ । उ॒श॒तीः । वि । श्र॒य॒न्ता॒म् । उ॒त । दे॒वान् । उ॒श॒तः । आ । व॒ह॒ । इ॒ह ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च उशतीर्देवान् कामयमानाः द्वारो यज्ञगृहस्य देव्योवा तथा च यास्कः-द्वारोजवतेर्वा द्रवतेर्वा वारयतेर्वेति । विश्रयन्तां उतापिच उशतोयज्ञं कामयमानान् देवानिहयज्ञे आवह ॥ २ ॥