त्वामु॒ ते द᳚धिरे हव्य॒वाहं᳚ दे॒वासो᳚ अग्न ऊ॒र्ज आ नपा᳚तम् ॥
पदपाठः (Word-by-word)
त्वाम् । ऊं॒ इति᳚ । ते । द॒धि॒रे॒ । ह॒व्य॒॑वाह᳚म् । दे॒वासः᳚ । अ॒ग्ने॒ । ऊ॒र्जः । आ । नपा᳚तम् ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने ऊर्जोबलस्य नपातं पुत्रं सूनुः नपादित्यपत्यनामसु पाठात् त्वामु त्वामेव ते प्रसिद्धादेवासोदेवा हव्यवाहं हविषोवोढारं आदधिरे अकुर्वन्नित्यर्थः ॥ ६ ॥