अग्ने᳚ वी॒हि ह॒विषा॒ यक्षि᳚ दे॒वान्त्स्व᳚ध्व॒रा कृ᳚णुहि जातवेदः ॥
पदपाठः (Word-by-word)
अग्ने᳚ । वी॒हि । ह॒विषा᳚ । यक्षि᳚ । दे॒वान् । सु॒॑अ॒ध्व॒रा । कृ॒णु॒हि॒ । जा॒त॒॑वे॒दः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे जातवेदः जातधनाग्ने वीहि देवानभिगच्छ हविषा देवान्यक्षि यजच स्वध्वरा स्वध्वरान् शोभनयज्ञांश्च कृणुहि कुरु ॥ ३ ॥