श्रवणम्

7.17.5
वंस्व॒ विश्वा॒ वार्या᳚णि प्रचेतः स॒त्या भ᳚वन्त्वा॒शिषो᳚ नो अ॒द्य ॥
▶ पदपाठः (Word-by-word)
वंस्व᳚ । विश्वा᳚ । वार्या᳚णि । प्र॒चे॒त॒ इति᳚ प्र॑चेतः । स॒त्याः । भ॒व॒न्तु॒ । आ॒॑शिषः᳚ । नः॒ । अ॒द्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे प्रचेतःप्रकृष्टमतिमन्नग्ने विश्वा विश्वानि वार्याणि वरणीयानि धनानि वंस्व अस्मभ्यं देहि नोस्माकमाशिषोद्य सत्यायथार्था भवन्तु ॥ ५ ॥