श्रवणम्

7.17.1
अग्ने॒ भव᳚ सुष॒मिधा॒ समि᳚द्ध उ॒त ब॒र्हिरु᳚र्वि॒या वि स्तृ᳚णीताम् ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । भव᳚ । सु॒॑स॒मिधा᳚ । सम्॑इ᳚द्धः । उ॒त । ब॒र्हिः । उ॒र्वि॒या । वि । स्तृ॒णी॒ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने सुषमिधा शोभनया समिधा समिद्धोभव सम्यक् दीप्तोभव । उतापि च बर्हिरुर्विया विस्तीर्णं विस्तृणीतां उपस्तृणीतमध्वर्युः ॥ १ ॥