अधा॒ न्व᳚स्य सं॒दृशं᳚ जग॒न्वान॒ग्नेरनी᳚कं॒ वरु᳚णस्य मंसि ।
स्व१॒᳚र्यदश्म᳚न्नधि॒पा उ॒ अन्धो॒॑भि मा॒ वपु᳚र्दृ॒शये᳚ निनीयात् ॥
स्व१॒᳚र्यदश्म᳚न्नधि॒पा उ॒ अन्धो॒॑भि मा॒ वपु᳚र्दृ॒शये᳚ निनीयात् ॥
पदपाठः (Word-by-word)
अध᳚ । नु । अ॒स्य॒ । स॒म्॑दृश᳚म् । ज॒ग॒न्वान् । अ॒ग्नेः । अनी᳚कम् । वरु᳚णस्य । मं॒सि॒ ।
स्वः᳚ । यत् । अश्म᳚न् । अ॒धि॒॑पाः । ऊं॒ इति᳚ । अन्धः᳚ । अ॒भि । मा॒ । वपुः᳚ । दृ॒शये᳚ । नि॒नी॒या॒त् ॥
स्वः᳚ । यत् । अश्म᳚न् । अ॒धि॒॑पाः । ऊं॒ इति᳚ । अन्धः᳚ । अ॒भि । मा॒ । वपुः᳚ । दृ॒शये᳚ । नि॒नी॒या॒त् ॥
सायणभाष्यम् (Sayana Commentary)
अध अधुना अस्य वरुणस्य संदृशं सन्दर्शनं नु क्षिप्रं जगन्वान् गतवानहं अग्नेरनीकं ज्वालासंघं मंसि स्तवानि तं वरुणं यष्टुमितिशेषः यद्यदा वरुणः स्वः सुखकरं अश्मन् अश्मनि अभिषवार्थे पाषाणे अवस्थितमभिषुतमित्यर्थः ईदृशं अन्धः सोमलक्षणमन्नं अधिपाः अ- धिकं पाता भवेत् छान्दसः षष्ठ्यभावः उइतिपूरकः तदानीं मा मां वपुः शरीरं स्वकीयं वपुरितिरूपनाम प्रशस्तं रूपं वा दृशये दर्शनार्थं अभिनिनीयादभिप्रापयेत् ॥ २ ॥