आ यद्रु॒हाव॒ वरु᳚णश्च॒ नावं॒ प्र यत्स᳚मु॒द्रमी॒रया᳚व॒ मध्य᳚म् ।
अधि॒ यद॒पां स्नुभि॒श्चरा᳚व॒ प्र प्रे॒ङ्ख ई᳚ङ्खयावहै शु॒भे कम् ॥
अधि॒ यद॒पां स्नुभि॒श्चरा᳚व॒ प्र प्रे॒ङ्ख ई᳚ङ्खयावहै शु॒भे कम् ॥
पदपाठः (Word-by-word)
आ । यत् । रु॒हाव᳚ । वरु᳚णः । च॒ । नाव᳚म् । प्र । यत् । स॒मु॒द्रम् । ई॒रया᳚व । मध्य᳚म् ।
अधि᳚ । यत् । अ॒पाम् । स्नु॑भिः᳚ । चरा᳚व । प्र । प्र॒॑ई॒ङ्खे । ई॒ङ्ख॒या॒व॒है॒ । शु॒भे । कम् ॥
अधि᳚ । यत् । अ॒पाम् । स्नु॑भिः᳚ । चरा᳚व । प्र । प्र॒॑ई॒ङ्खे । ई॒ङ्ख॒या॒व॒है॒ । शु॒भे । कम् ॥
सायणभाष्यम् (Sayana Commentary)
यद्यदा वरुणे प्रसन्ने सति अहं वरुणश्चोभौ नावं द्रुममयीं तरणसाधनभूतां आरुहाब उभावारूढाबभूविव तां च नावं यद्यदा समुद्रं मध्यं समुद्रस्य मध्यं प्रति प्रेरयाव प्रकर्षेण गमयाव यद्यदा च अपामुदकानां अधि उपरि स्नुभिः गन्त्रीभिरन्याभिरपि नौभिः चराव वर्तावहै तदानीं शुभे शोभार्थं प्रेंखे नौरूपायां दोलायामेव प्रेंखयावहै निम्नोन्नतैस्तरङ्गैरितश्चेतश्च प्रविचलन्तौ संक्रीडावहै कमितिपूरकः यद्वा क्रियाविशेषणं कं सुखं यथाभवति वथेत्यर्थः ॥ ३ ॥