य आ॒पिर्नित्यो᳚ वरुण प्रि॒यः सन्त्वामागां᳚सि कृ॒णव॒त्सखा᳚ ते ।
मा त॒ एन᳚स्वन्तो यक्षिन्भुजेम य॒न्धि ष्मा॒ विप्र᳚ः स्तुव॒ते वरू᳚थम् ॥
मा त॒ एन᳚स्वन्तो यक्षिन्भुजेम य॒न्धि ष्मा॒ विप्र᳚ः स्तुव॒ते वरू᳚थम् ॥
पदपाठः (Word-by-word)
यः । आ॒पिः । नित्यः᳚ । व॒रु॒ण॒ । प्रि॒यः । सन् । त्वाम् । आगां᳚सि । कृ॒णव᳚त् । सखा᳚ । ते॒ ।
मा । ते॒ । एन᳚स्वन्तः । य॒क्षि॒न् । भु॒जे॒म॒ । य॒न्धि । स्म॒ । विप्रः᳚ । स्तु॒व॒ते । वरू᳚थम् ॥
मा । ते॒ । एन᳚स्वन्तः । य॒क्षि॒न् । भु॒जे॒म॒ । य॒न्धि । स्म॒ । विप्रः᳚ । स्तु॒व॒ते । वरू᳚थम् ॥
सायणभाष्यम् (Sayana Commentary)
हे वरुण योवसिष्ठोनित्योध्रुवः आपिर्बन्धुः औरसः पुत्रइत्यर्थः यः पूर्वं प्रियःसन् त्वां प्रति आगांसि अपराधान्कृणवत् अकरोत् सइदानीं ते तव सखा समानख्यानः प्रियोस्तु । हे यक्षिन् यजनार्ह वरुण ते तव स्वभूतावयं एनस्वन्तः एनसा पापेन युक्ताः सन्तोमाभुजेम माभुंज्महि त्वत्प्रसादात् पापरहिताएव सन्तोभोगान् भुनजामहै विप्रोमेधावी त्वच स्तुवते स्तोत्रं कुर्वते वसिष्ठाय वरूथं अनिष्टवारकं वरणीयं वा गृहं यन्धि प्रयच्छ स्मेतिपूरकः ॥ ६ ॥