श्रवणम्

7.88.4 समानपद
वसि᳚ष्ठं ह॒ वरु᳚णो ना॒व्याधा॒दृषिं᳚ चकार॒ स्वपा॒ महो᳚भिः ।
स्तो॒तारं॒ विप्र᳚ः सुदिन॒त्वे अह्नां॒ यान्नु द्याव᳚स्त॒तन॒न्यादु॒षासः᳚ ॥
▶ पदपाठः (Word-by-word)
वसि᳚ष्ठम् । ह॒ । वरु᳚णः । ना॒वि । आ । अ॒धा॒त् । ऋषि᳚म् । च॒का॒र॒ । सु॒॑अपाः᳚ । महः᳚॑भिः ।
स्तो॒तार᳚म् । विप्रः᳚ । सु॒दि॒न॒॑त्वे । अह्ना᳚म् । यात् । नु । द्यावः᳚ । त॒तन᳚न् । यात् । उ॒षसः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एवं वसिष्ठेनात्मनोक्ते यद्वरुणेन कृतं तद्दर्शयति वसिष्ठं ह वसिष्ठं खलु वरुणोनावि स्वकीयायां आ अधात् आरोहयत् तथा तमृषिं अवोभिः रक्षणैः स्वपां स्वपसं शोभनकर्माणं चकार वरुणः कृतवान् अपिच विप्रोमेधावी वरुणः अह्नां दिवसानां मध्ये सुदिनत्वे यत्फलत्वेन शोभनदिनत्वं तत्र स्तोतारं अस्थापयदितिशेषः किंकुर्वन् यात् यातोगच्छतोद्यावोदिवसान् यात् यातीः उषासः उषसाउपलक्षिता- रात्रीश्च नु क्षिप्रं ततनन् सूर्यात्मना विस्तारयन् ॥ ४ ॥