यद्गो॒पाव॒ददि᳚ति॒ः शर्म᳚ भ॒द्रं मि॒त्रो यच्छ᳚न्ति॒ वरु᳚णः सु॒दासे᳚ ।
तस्मि॒न्ना तो॒कं तन᳚यं॒ दधा᳚ना॒ मा क᳚र्म देव॒हेळ᳚नं तुरासः ॥
तस्मि॒न्ना तो॒कं तन᳚यं॒ दधा᳚ना॒ मा क᳚र्म देव॒हेळ᳚नं तुरासः ॥
पदपाठः (Word-by-word)
यत् । गो॒पाव᳚त् । अदि᳚तिः । शर्म᳚ । भ॒द्रम् । मि॒त्रः । यच्छ᳚न्ति । वरु᳚णः । सु॒॑दासे᳚ ।
तस्मि᳚न् । आ । तो॒कम् । तन᳚यम् । दधा᳚नाः । मा । क॒र्म॒ । दे॒व॒॑हेळ᳚नम् । तु॒रा॒सः॒ ॥
तस्मि᳚न् । आ । तो॒कम् । तन᳚यम् । दधा᳚नाः । मा । क॒र्म॒ । दे॒व॒॑हेळ᳚नम् । तु॒रा॒सः॒ ॥
सायणभाष्यम् (Sayana Commentary)
यच्छर्मसुखं गृहं वा गोपावत् रक्षणोपेतं भद्रं स्तुत्यं अदितिरदिनोर्यमा अदितिवा मित्रोवरुणश्चैतेत्रयोदेवाः सुदासे सुदानाय मह्यं यच्छ- न्ति प्रयच्छन्ति तस्मिन् शर्मणि तोकं पुत्रं तनयं तत्पुत्रादिकं अथवा तनयशब्दोपत्यसामान्यवचनः तोकं बलवन्तं पुत्रं आसर्वतोदधानाः धारयन्तोवयं हे तुरासोगमनाय त्वरमाणाः देवहेळनं देवानां मित्रादीनां कोपनं मा कर्म मा कार्ष्म ॥ ८ ॥