श्रवणम्

7.60.1
यद॒द्य सू᳚र्य॒ ब्रवो॑ना᳚गा उ॒द्यन्मि॒त्राय॒ वरु᳚णाय स॒त्यम् ।
व॒यं दे᳚व॒त्रादि᳚ते स्याम॒ तव᳚ प्रि॒यासो᳚ अर्यमन्गृ॒णन्त᳚ः ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒द्य । सू॒र्य॒ । ब्रवः᳚ । अना᳚गाः । उ॒त्॑यन् । मि॒त्राय᳚ । वरु᳚णाय । स॒त्यम् ।
व॒यम् । दे॒व॒॑त्रा । अ॒दि॒ते॒ । स्या॒म॒ । तव᳚ । प्रि॒यासः᳚ । अ॒र्य॒म॒न् । गृ॒णन्तः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितंवेदा योवेदेभ्योखिलंजगत् । निर्ममेतमहंवंदे विद्यातीर्थमहेश्वरम् ॥ १ ॥

व्याख्यायनिगमाभिज्ञः पञ्चमस्यचतुर्थकम् । अध्यायंसायणाचार्यः पञ्चमंव्याकरोत्यथ ॥ २ ॥

तत्र यदद्यसूर्येति द्वादशर्चं पञ्चमं सूक्तम् अत्रानुक्रमणिका-यदद्य मैत्रावरुणन्तु वै सौर्याद्येति । मण्डलद्रष्टा वसिष्ठऋषिः अनुक्तत्वात् त्रिष्टुप् छन्दः तु वै इत्युक्तत्वादेतदादीनि सप्तसूक्तानि मित्रावरुणदेवत्यानि आद्यासूर्यदेवस्या विनियोगोलैङ्गिकः ।

हे सूर्य सर्वस्यप्रेरक एतन्नामकदेव उद्यन् उदयंस्त्वं यद्यदि अद्यास्मिन् अनुष्ठानकालेस्मान् ब्रवः ब्रूयाः । किमिति अनागाः अनागसइति एते अपापाइति यदि देवेषु मध्ये ब्रूयाः तर्हि वयं हे अदिते अदीनदेव देवत्रा देवेषु देवानां मध्ये मित्राय वरुणाय च सत्वं अवितथं स्याम अनागसोभवेम । किञ्च हे अर्यमन् दातः त्वां गृणन्तः स्तुवन्तः तव प्रियासः प्रियाः स्याम त्वत्प्रेमविषयाभवेम । यद्वोत्तरार्धएकं वाक्यम् । हे अदिते हेअर्यमन् उक्तलक्षण देव वयं देवेषु मध्ये त्वां गृणन्तः तवैव प्रियाः स्याम यदि मां देवेष्वपापं ब्रूयास्तर्हि तैरयमनपराधीत्यनुगृ- हीतस्त्वां स्तुत्वा तव प्रियोभवेयमित्यर्थः ॥ १ ॥