अव॒ वेदिं॒ होत्रा᳚भिर्यजेत॒ रिप॒ः काश्चि᳚द्वरुण॒ध्रुत॒ः सः ।
परि॒ द्वेषो᳚भिरर्य॒मा वृ᳚णक्तू॒रुं सु॒दासे᳚ वृषणा उ लो॒कम् ॥
परि॒ द्वेषो᳚भिरर्य॒मा वृ᳚णक्तू॒रुं सु॒दासे᳚ वृषणा उ लो॒कम् ॥
पदपाठः (Word-by-word)
अव᳚ । वेदि᳚म् । होत्रा᳚भिः । य॒जे॒त॒ । रिपः᳚ । काः । चि॒त् । व॒रु॒ण॒॑ध्रुतः᳚ । सः ।
परि᳚ । द्वेषः᳚॑भिः । अ॒र्य॒मा । वृ॒ण॒क्तु॒ । उ॒रुम् । सु॒॑दासे᳚ । वृ॒ष॒णौ॒ । ऊं॒ इति᳚ । लो॒कम् ॥
परि᳚ । द्वेषः᳚॑भिः । अ॒र्य॒मा । वृ॒ण॒क्तु॒ । उ॒रुम् । सु॒॑दासे᳚ । वृ॒ष॒णौ॒ । ऊं॒ इति᳚ । लो॒कम् ॥
सायणभाष्यम् (Sayana Commentary)
हे मित्रादयः सोस्मत् द्वेषी वेदिं यागसाधनं होत्राभिः वाङ्नामैतत् वाग्रूपाभिः स्तुतिभिः सार्धं अवयजेत वेद्यां कर्माणि कुर्वन् देवान् न स्तुयादित्यर्थः अवपूर्वोयजतिस्त्यागार्थः सकिं प्राप्नुयादिति तत्राह वरुणध्रुतः वरुणेन त्वया हिंसितः सकाः कश्चिद्रिपोहिंसाः प्राप्नुयादिति शेषः । अस्मांस्त्वर्यमादेवोद्वेषोभिः द्वेष्टृभीरक्षःप्रभृतिभिः परिवृणक्तु वर्जयतु उरुं विस्तीर्णं लोकं स्थानं सुदासे शोभनदानाय मह्यं प्रय- च्छतं हे वृषणौ वर्षकौ कामानां मित्रावरुणौ उःपूरणः ॥ ९ ॥