श्रवणम्

7.60.4
उद्वां᳚ पृ॒क्षासो॒ मधु᳚मन्तो अस्थु॒रा सूर्यो᳚ अरुहच्छु॒क्रमर्ण᳚ः ।
यस्मा᳚ आदि॒त्या अध्व᳚नो॒ रद᳚न्ति मि॒त्रो अ᳚र्य॒मा वरु᳚णः स॒जोषा᳚ः ॥
▶ पदपाठः (Word-by-word)
उत् । वा॒म् । पृ॒क्षासः᳚ । मधु᳚॑मन्तः । अ॒स्थुः॒ । आ । सूर्यः᳚ । अ॒रु॒ह॒त् । शु॒क्रम् । अर्णः᳚ ।
यस्मै᳚ । आ॒दि॒त्याः । अध्व᳚नः । रद᳚न्ति । मि॒त्रः । अ॒र्य॒मा । वरु᳚णः । स॒॑जोषाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणौ वां युवयोरर्थाय पृक्षासोन्नानि चरुपुरोडाशादीनि मधुमन्तोमाधुर्योपेतानि तत्साधनान्योषध्यादीनिवा उदस्थुः संपादिता- न्यासन् सूर्यश्च शुक्रं दीप्तं अर्णः अर्णवमन्तरिक्षं आरुहत् आरोहति यस्मै सूर्याय तद्गमनार्थमादित्याअदितेः पुत्रादेवा अध्वनोमार्गान् रदन्ति विलिखन्ति साधयन्ति । के ते मित्रः अर्यमा वरुणश्चैते त्रयोपि देवाः सजोषसः समानप्रीतयः सन्तः सदेव आरुहदिति ॥ ४ ॥