श्रवणम्

7.60.2 समानपद
ए॒ष स्य मि᳚त्रावरुणा नृ॒चक्षा᳚ उ॒भे उदे᳚ति॒ सूर्यो᳚ अ॒भि ज्मन् ।
विश्व᳚स्य स्था॒तुर्जग᳚तश्च गो॒पा ऋ॒जु मर्ते᳚षु वृजि॒ना च॒ पश्य᳚न् ॥
▶ पदपाठः (Word-by-word)
ए॒षः । स्यः । मि॒त्रा॒व॒रु॒णा॒ । नृ॒॑चक्षाः᳚ । उ॒भे इति᳚ । उत् । ए॒ति॒ । सूर्यः᳚ । अ॒भि । ज्मन् ।
विश्व᳚स्य । स्था॒तुः । जग᳚तः । च॒ । गो॒पाः । ऋ॒जु । मर्ते᳚षु । वृ॒जि॒ना । च॒ । पश्य᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणा मित्रावरुणौ एषः पुरतोदृश्यमानः स्यः सः सर्वस्तुत्यत्वे प्रसिद्धः नृचक्षः नृणां मनुष्याणां द्रष्टा सूर्यः उभे द्यावापृथिव्या- वभि अभिलक्ष्यउदेति ज्मन् अन्तरिक्षे गच्छन् सविशेष्यते विश्वस्य सर्वस्य स्थातुः स्थावरस्य जगतोजंगमस्यच गोपाः गोपायिता । किंकुर्वन् मर्तेषु मनुष्येषु स्थितानि ऋजु ऋजूनि सुकृतानि वृजिना वृजिनानि पापानि च पश्यन् ॥ २ ॥