स॒स्वश्चि॒द्धि समृ᳚तिस्त्वे॒ष्ये᳚षामपी॒च्ये᳚न॒ सह᳚सा॒ सह᳚न्ते ।
यु॒ष्मद्भि॒या वृ᳚षणो॒ रेज᳚माना॒ दक्ष᳚स्य चिन्महि॒ना मृ॒ळता᳚ नः ॥
यु॒ष्मद्भि॒या वृ᳚षणो॒ रेज᳚माना॒ दक्ष᳚स्य चिन्महि॒ना मृ॒ळता᳚ नः ॥
पदपाठः (Word-by-word)
स॒स्वरिति᳚ । चि॒त् । हि । सम्॑ऋ᳚तिः । त्वे॒षी । ए॒षा॒म् । अ॒पी॒च्ये᳚न । सह᳚सा । सह᳚न्ते ।
यु॒ष्मत् । भि॒या । वृ॒ष॒णः॒ । रेज᳚मानाः । दक्ष᳚स्य । चि॒त् । म॒हि॒ना । मृ॒ळत᳚ । नः॒ ॥
यु॒ष्मत् । भि॒या । वृ॒ष॒णः॒ । रेज᳚मानाः । दक्ष᳚स्य । चि॒त् । म॒हि॒ना । मृ॒ळत᳚ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
एषां मित्रादीनांसमृतिः संगतिः संहतिर्वा सस्वः अन्तार्हिता निगूढा त्वेषी दीप्ताच भवति तादृशाएते अपीच्येन एतदप्यन्तर्हितनाम निगूढेन सहसा बलेन सहन्ते अभि भवन्ति अस्मद्वेष्टृन् । किञ्च हे वृषणोभिमतवर्षकामित्रादयो युष्मद्युषमत्तोभिया भीत्या रेजमानाः कंपमानाभवन्ति विरोधिनः । यस्मादेवं तस्माद्दक्षस्य युष्माकं बलस्य महिना महिम्ना महत्त्वेन नोस्मभ्यं मृळत उपदयां कुरुत चिद्धि- पूरणौ ॥ १० ॥