श्रवणम्

7.32.16 समानपद
तवेदि᳚न्द्राव॒मं वसु॒ त्वं पु᳚ष्यसि मध्य॒मम् ।
स॒त्रा विश्व᳚स्य पर॒मस्य᳚ राजसि॒ नकि᳚ष्ट्वा॒ गोषु᳚ वृण्वते ॥
▶ पदपाठः (Word-by-word)
तव᳚ । इत् । इ॒न्द्र॒ । अ॒व॒मम् । वसु᳚ । त्वम् । पु॒ष्य॒सि॒ । म॒ध्य॒मम् ।
स॒त्रा । विश्व᳚स्य । प॒र॒मस्य᳚ । रा॒ज॒सि॒ । नकिः᳚ । त्वा॒ । गोषु᳚ । वृ॒ण्व॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र अवमं अधमं त्रपुसीसादिकं वसु धनं यद्वा भौमंवस्ववमंतवेत् तवैव त्वं त्वमेव मध्यमं वसु रजतहिरण्यादिकं आन्तरिक्षं वा पुष्यसि विश्वस्य सर्वस्य परमस्योत्तमस्यापि रत्नादेर्दिव्यस्य वा वसुनो राजसि ईशिषे सत्रा सत्यमेव अपि च त्वा त्वां गोषु निमित्तेषु नकिर्वृण्वते केपि न वारयन्ति ॥ १६ ॥