श्रवणम्

7.1.2
तम॒ग्निमस्ते॒ वस᳚वो॒ न्यृ᳚ण्वन्त्सुप्रति॒चक्ष॒मव᳚से॒ कुत᳚श्चित् ।
द॒क्षाय्यो॒ यो दम॒ आस॒ नित्य᳚ः ॥
▶ पदपाठः (Word-by-word)
तम् । अ॒ग्निम् । अस्ते᳚ । वस᳚वः । नि । ऋ॒ण्व॒न् । सु॒॑प्र॒ति॒चक्ष᳚म् । अव᳚से । कुतः᳚ । चि॒त् ।
द॒क्षाय्यः᳚ । यः । दमे᳚ । आस᳚ । नित्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निः दमे गृहे दक्षाय्यः पूजनीयो हविर्भिः समर्धनीयोवा नित्यो जस्रः आस बभूवतं सुप्रतिचक्षं सुप्रतिदर्शनमग्निं कुतश्चित् सर्वस्मादपि भयहेतोः अवसे रक्षणाय वसवो वासकाः ये वसिष्ठा अस्ते गृहे न्यृण्वन् न्यदधुः ॥ २ ॥