नू॒नं दि॒वो दु᳚हि॒तरो᳚ विभा॒तीर्गा॒तुं कृ᳚णवन्नु॒षसो॒ जना᳚य ॥
पदपाठः (Word-by-word)
नू॒नम् । दि॒वः । दु॒हि॒तरः᳚ । वि॒॑भा॒तीः । गा॒तुम् । कृ॒ण॒व॒न् । उ॒षसः᳚ । जना᳚य ॥
सायणभाष्यम् (Sayana Commentary)
अथाष्टमं व्याख्यातुमारभते । इदमु त्यदित्येकादशर्चं षष्ठं सूक्तं वामदेवस्यार्षं त्रैष्टुभमुषोदेवताकम् । इदमुषस्यं त्वित्यनुक्रान्तम् । प्रातरनुवाक उषस्ये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्र इदं सूक्तम् । सूत्रितं च । उषो वाजेनेदमु त्यत् । आ. ४-१४ । इति ॥
इदमु पुरतो दृश्यमानमिदं त्यत्तदस्माभिः स्तुत्यं सर्वप्रसिद्धं पुरतममत्यन्तप्रभूतं ज्योतिस्तेजो वयुनावत् । वेतेः कान्तिकर्मन इदम् । प्रकृष्तकान्तिमत् । अथवा वयुनमिति प्रज्ञानाम । प्रज्ञोपेत । सर्वस्य प्रज्ञापकमित्यर्थः । कीदृक् तेजः । पुरस्तात् पूर्वस्यां दिशि तमसोऽन्धकारादस्थात् । उदतिष्थत् । एवं सति नूनं सत्यं दिव आदित्यस्य दुहितरो दुहितृस्थानीया विभातीर्विभानं कुर्वतीरुषसो जनाय यजमानानां गातुं गमनं गमनादिव्यापरसामर्थ्यं कृणवन् । अकुर्वन् ॥ १ ॥