चतुर्थं मण्डलम् - सूक्तम् 44

7 ऋचः

ऋषिः: पुरुमीळ्हाजमीळ्हौ सौहोत्रौ देवता: अश्विनौ छन्दः: त्रिष्टुप्

सूक्तम् 4.44 - सम्पूर्णम्

1 / 7
ऋक्: 4.44.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
4.44.1
तं वां॒ रथं᳚ व॒यम॒द्या हु᳚वेम पृथु॒ज्रय᳚मश्विना॒ संग᳚तिं॒ गोः ।
यः सू॒र्यां वह᳚ति वन्धुरा॒युर्गिर्वा᳚हसं पुरु॒तमं᳚ वसू॒युम् ॥
▶ पदपाठः (Word-by-word)
तम् । वा॒म् । रथ᳚म् । व॒यम् । अ॒द्य । हु॒वे॒म॒ । पृ॒थु॒॑ज्रय᳚म् । अ॒श्वि॒ना॒ । सम्॑ग᳚तिम् । गोः ।
यः । सू॒र्याम् । वह᳚ति । व॒न्धु॒र॒॑युः । गिर्वा᳚हसम् । पु॒रु॒॑तम᳚म् । व॒सु॒॑युम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तं वां रथमिति सप्तर्चं द्वादशं सूक्तम् । पुरुमीह्ळाजमीह्ळावेव ऋषिः । त्रिष्टुप् छन्दः । अश्विनौ देवता । तं वामित्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥

हे अश्विनौ वां युवयो रथं स्तोतारोऽद्य सुत्याहनि हुवेम । आह्वयामः । कीद्रुशं तम् । पृथुज्रयं प्रथितवेगं गोः गवां सङ्गतिं सङ्गमयितारम् । यो रथः सूर्यां वहति । धारयति । वन्धुरयुः । रथे निवासाधारभूतः काष्थो वन्धुरं तद्वान् । तं गिर्वाहसं गिरां स्तुतीनां वोढारं पुरुतमं प्रभूततमं वसूयुं वसुमन्तम् ॥ १ ॥

4.44.2
यु॒वं श्रिय᳚मश्विना दे॒वता॒ तां दिवो᳚ नपाता वनथ॒ः शची᳚भिः ।
यु॒वोर्वपु᳚र॒भि पृक्ष᳚ः सचन्ते॒ वह᳚न्ति॒ यत्क᳚कु॒हासो॒ रथे᳚ वाम् ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । श्रिय᳚म् । अ॒श्वि॒ना॒ । दे॒वता᳚ । तान् । दिवः᳚ । न॒पा॒ता॒ । व॒न॒थः॒ । शची᳚भिः ।
यु॒वोः । वपुः᳚ । अ॒भि । पृक्षः᳚ । स॒च॒न्ते॒ । वह᳚न्ति । यत् । क॒कु॒हासः᳚ । रथे᳚ । वा॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दिवो नापातादित्यस्य पुत्रस्थानीयौ द्युलोकस्य वा न पातयितारौ हे अश्विनौ युवं युवां देवता देवते । विभक्तिव्यत्ययः । तां प्रसिद्धां श्रियं शचीभिः कर्मभिः शक्तिभिर्वा वनथः । सम्भजेथे । यद्वा । वदतिर्दानार्थः । युवोर्युवयोर्वपुः शरीरं पृक्शोऽन्नानि सोमलक्षणान्यभि सचन्ते । यद्यदा रथे वां वहन्ति ककुहासो महान्तोऽश्वाः । यद्वा । स्तुतयो वां युवां रथे वहन्ति ॥ २ ॥

4.44.3
को वा᳚म॒द्या क᳚रते रा॒तह᳚व्य ऊ॒तये᳚ वा सुत॒पेया᳚य वा॒र्कैः ।
ऋ॒तस्य᳚ वा व॒नुषे᳚ पू॒र्व्याय॒ नमो᳚ येमा॒नो अ᳚श्वि॒ना व᳚वर्तत् ॥
▶ पदपाठः (Word-by-word)
कः । वा॒म् । अ॒द्य । क॒र॒ते॒ । रा॒त॑ह᳚व्यः । ऊ॒तये᳚ । वा॒ । सु॒त॒॑पेया᳚य । वा॒ । अ॒र्कैः ।
ऋ॒तस्य᳚ । वा॒ । व॒नुषे᳚ । पू॒र्व्याय᳚ । नमः᳚ । ये॒मा॒नः । अ॒श्वि॒ना॒ । आ । व॒व॒र्त॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

को यजमानोऽद्य वां युवयोः करते । कुर्यात् स्तुतिम् । अर्कैर्मन्त्रै रातहव्यो दत्तसोम ऊतये वा रक्षणाय वा सुतपेयाय सोमपानाय वा । ऋतस्योदकस्य यज्ञस्य वा पूर्व्याय पुराणाय वनुषे सम्भजनाय हे अश्विना नमो येमानो नमस्कारं कुर्वाणाः क आ ववर्तत् । आवर्तयेद्यज्ञं प्रति ॥ ३ ॥

4.44.4 समानपद
हि॒र॒ण्यये᳚न पुरुभू॒ रथे᳚ने॒मं य॒ज्ञं ना᳚स॒त्योप᳚ यातम् ।
पिबा᳚थ॒ इन्मधु᳚नः सो॒म्यस्य॒ दध᳚थो॒ रत्नं᳚ विध॒ते जना᳚य ॥
▶ पदपाठः (Word-by-word)
हि॒र॒ण्यये᳚न । पु॒रु॒भू॒ इति᳚ पुरु॑भू । रथे᳚न । इ॒मम् । य॒ज्ञम् । ना॒स॒त्या॒ । उप᳚ । या॒त॒म् ।
पिबा᳚थः । इत् । मधु᳚नः । सो॒म्यस्य᳚ । दध᳚थः । रत्न᳚म् । वि॒ध॒ते । जना᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरुभू बहु भवन्तौ नासत्याविमं यज्ञं हिरण्ययेन रथेनोपयातम् । सोमस्य सोमसम्बन्धिनो मधुनो मधुररसस्य । कर्मणि षष्ठ्यौ । सोमरसं पिबाथः । पिबथः । विधते परिचरते जनाय मह्यं रत्नं रमणीयं धनं दधथः । धारयथः । दधतेर्दानार्थस्य लेटि रूपम् ॥ ४ ॥

4.44.5
आ नो᳚ यातं दि॒वो अच्छा᳚ पृथि॒व्या हि᳚र॒ण्यये᳚न सु॒वृता॒ रथे᳚न ।
मा वा᳚म॒न्ये नि य᳚मन्देव॒यन्त॒ः सं यद्द॒दे नाभि᳚ः पू॒र्व्या वा᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । या॒त॒म् । दि॒वः । अच्छ᳚ । पृ॒थि॒व्याः । हि॒र॒ण्यये᳚न । सु॒॑वृता᳚ । रथे᳚न ।
मा । वा॒म् । अ॒न्ये । नि । य॒म॒न् । दे॒व॒॑यन्तः᳚ । सम् । यत् । द॒दे । नाभिः᳚ । पू॒र्व्या । वा॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोऽस्मानच्छाभि प्राप्तुं दिवो द्युलोकात्पृथिव्याः सकाशाद्वा आ यातम् । केन साधनेन । हिरण्ययेन हितरमणीयेन सुवृता शोभनवर्तनेन रथेन । वां युवानमन्ये देवयन्तो देवौ युवामिच्छन्तो यजमाना मा नि यमन् । नियमनं मा कुर्वन् । यद्यस्मात्पूर्व्या पूर्वार्हेतरयष्टृभ्यः पूर्वभाविनी नाभिर्बन्धिका स्तुतिः सं ददे । सम्बध्नाति । तस्मादायातम् ॥ ५ ॥

4.44.6 समानपद
नू नो᳚ र॒यिं पु᳚रु॒वीरं᳚ बृ॒हन्तं॒ दस्रा॒ मिमा᳚थामु॒भये᳚ष्व॒स्मे ।
नरो॒ यद्वा᳚मश्विना॒ स्तोम॒माव᳚न्त्स॒धस्तु᳚तिमाजमी॒ळ्हासो᳚ अग्मन् ॥
▶ पदपाठः (Word-by-word)
नु । नः॒ । र॒यिम् । पु॒रु॒॑वीर᳚म् । बृ॒हन्त᳚म् । दस्रा᳚ । मिमा᳚थाम् । उ॒भये᳚षु । अ॒स्मे इति᳚ ।
नरः᳚ । यत् । वा॒म् । अ॒श्वि॒ना॒ । स्तोम᳚म् । आव᳚न् । स॒ध॑स्तु᳚तिम् । आ॒ज॒॑मी॒ळ्हासः᳚ । अ॒ग्म॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नु क्षिप्रं नोऽस्माकं रयिं धनं पुरुवीरं बहुपुत्रोपेतं बृहन्तं महान्तं हे दस्राश्विनौ मिमाथाम् । कुरुतं उभयेषु पुरुमीळ्हाजमीळ्हेष्वस्मे अस्मासु यद्यदा नरो नेतार ऋत्विजः पुरुमीळ्हसम्बन्धिनो वां युवयोः स्तोमं स्तोत्रमावन् । अगमत् । प्राप्ताः । तथा सधस्तुतिं सहस्तुतिमाजमीळ्हा सोऽजमीळ्हसम्बन्धिऽनोपि तैः सहाग्मन् आगमन् ॥ ६ ॥

4.44.7
इ॒हेह॒ यद्वां᳚ सम॒ना प᳚पृ॒क्षे सेयम॒स्मे सु᳚म॒तिर्वा᳚जरत्ना ।
उ॒रु॒ष्यतं᳚ जरि॒तारं᳚ यु॒वं ह᳚ श्रि॒तः कामो᳚ नासत्या युव॒द्रिक् ॥
▶ पदपाठः (Word-by-word)
इ॒ह॑इ᳚ह । यत् । वा॒म् । स॒म॒ना । प॒पृ॒क्षे । सा । इ॒यम् । अ॒स्मे इति᳚ । सु॒॑म॒तिः । वा॒ज॒॑र॒त्ना॒ ।
उ॒रु॒ष्यत᳚म् । ज॒रि॒तार᳚म् । यु॒वम् । ह॒ । श्रि॒तः । कामः᳚ । ना॒स॒त्या॒ । यु॒व॒द्रिक् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ यद्यस्मात् । यथा वा सुमत्या । इहेहास्मिन्नेव यज्ञे सुमना समानमनस्कौ । सदृशावित्यर्थः । तौ वां युवां सुमत्या पपृक्षे । स्तुत्या संयोजयामि । सेयमिदानीं क्रियमाणा सुमतिः शोभनस्तुतिरस्मे अस्माकमेव फलवती भवत्विति शेषः । हे वाजरत्ना रमणीयान्नौ । अन्नं वै वाजः । शत. ब्रा. ९-३-४-१ । इति श्रुतेः । युवं युवां जरितारं गरितारं स्तोतारं मामुरुष्यतम् । रक्षतम् । हे नासत्याश्विनौ कामोऽस्मदीयो युवद्रिक् ह युवामेव गच्छन् श्रितः प्राप्तः ॥ ७ ॥