चतुर्थं मण्डलम् - सूक्तम् 55

10 ऋचः

ऋषिः: वामदेवो गौतमः देवता: विश्वेदेवाः छन्दः: त्रिष्टुप्

सूक्तम् 4.55 - सम्पूर्णम्

1 / 10
ऋक्: 4.55.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
4.55.1 समानपद
को व᳚स्त्रा॒ता व᳚सव॒ः को व᳚रू॒ता द्यावा᳚भूमी अदिते॒ त्रासी᳚थां नः ।
सही᳚यसो वरुण मित्र॒ मर्ता॒त्को वो᳚॑ध्व॒रे वरि᳚वो धाति देवाः ॥
▶ पदपाठः (Word-by-word)
कः । वः॒ । त्रा॒ता । व॒स॒वः॒ । कः । व॒रू॒ता । द्यावा᳚भूमी॒ इति᳚ । अ॒दि॒ते॒ । त्रासी᳚थाम् । नः॒ ।
सही᳚यसः । व॒रु॒ण॒ । मि॒त्र॒ । मर्ता᳚त् । कः । वः॒ । अ॒ध्व॒रे । वरि᳚वः । धा॒ति॒ । दे॒वाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कोवस्त्रातेति दशर्चं दशमं सूक्तं वामदेवस्यार्षं विश्वदेवदेवताकम् । अष्टम्याद्यास्तिस्रो गायत्र्यः शिष्टा अनादेशपरिभाषया त्रिष्टुभः । तथा चानुक्रम्यते । को वो दश वैश्वदेवं त्रिगायत्र्यन्तं त्विति । विनियोगो लैङ्गिकः ॥

हे वसवः सर्वस्य वासयितारो देवा वो युष्मान् कस्त्रातास्ति । यतो यूयं वसवोऽत इत्यभिप्रायः । कश्च वरूता सम्भक्तास्ति । यद्वा । वो युष्माकं मध्ये कस्त्राता रक्षको देवः कश्च वरूता वारयिता दुःखानां वरणीयो वा भवति । हे द्यावाभूमी नोऽस्मान् त्रासीथाम् । रक्षतम् । हे अदिते अखण्डनीये । एतदपि द्यावाभूम्योर्विशेषणम् । संख्याव्यत्ययः । यदीदं पृथग्देवतामन्त्रणं स्यात् तर्हि निघातो न स्यात् । आमन्त्रितं पूर्वमविद्यमानवदिति पूर्वस्याविद्यमानवत्त्वेनास्यैव पादादित्वात् । अदिते मित्र वरुनॊत मृळ । ऋग्वे. २-२७-१४ । इति आदित्या रुद्रा वसवः सुदानवः । ऋग्वे. १०-६६-१२ । इतिवत् । तस्यैव विशेषनत्वे समानाधिकरण इति सामानाधिकरण्यात् अग्ने पावक रॊचिषा । ऋग्वे. ५-२६-१ । इतिवत् । अस्य निघातः सिद्ध्यति । तस्मात् द्यावाभूमी इत्येतस्य विशेशणम् । हे वरुण हे मित्र युवां सहीयसो मर्तादभिभवितुर्मनुष्यात् नस्त्रासीथाम् । हे देवा वो युष्माकमध्वरे यागे को वरिवो धनं धाति । ददाति । यद्वा । वो युष्माकं मध्ये को वरिवो धाति । धारयति ॥ १ ॥

4.55.2
प्र ये धामा᳚नि पू॒र्व्याण्यर्चा॒न्वि यदु॒च्छान्वि᳚यो॒तारो॒ अमू᳚राः ।
वि॒धा॒तारो॒ वि ते द᳚धु॒रज᳚स्रा ऋ॒तधी᳚तयो रुरुचन्त द॒स्माः ॥
▶ पदपाठः (Word-by-word)
प्र । ये । धामा᳚नि । पू॒र्व्याणि᳚ । अर्चा᳚न् । वि । यत् । उ॒च्छान् । वि॒॑यो॒तारः᳚ । अमू᳚राः ।
वि॒॑धा॒तारः᳚ । वि । ते । द॒धुः॒ । अज᳚स्राः । ऋ॒त॑धी᳚तयः । रु॒रु॒च॒न्त॒ । द॒स्माः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये देवाः पूर्व्याणि पुरातनानि धामानि स्थानानि वा प्रार्चान् । अर्चन्ति । प्रयच्छन्ति स्तोतृभ्यः । यत् ये च वियोतारो दुःखानाममिश्रयितारोऽमूरा अमूढा व्युच्छान् । व्युच्छन्ति । तमो विवासयन्ति देवाः । ते विधातारः फलानाम् कर्त्रारोऽजस्रा नित्या वि दध्य्ः । कुर्वन्त्यभिमतम् । किञ्च ऋतधीतयः सत्यकर्माणो दस्मा दर्शनीयास्ते रुरुचन्त । रॊचन्ते ॥ २ ॥

4.55.3
प्र प॒स्त्या॒३॒᳚मदि᳚तिं॒ सिन्धु᳚म॒र्कैः स्व॒स्तिमी᳚ळे स॒ख्याय᳚ दे॒वीम् ।
उ॒भे यथा᳚ नो॒ अह᳚नी नि॒पात᳚ उ॒षासा॒नक्ता᳚ करता॒मद᳚ब्धे ॥
▶ पदपाठः (Word-by-word)
प्र । प॒स्त्या᳚म् । अदि᳚तिम् । सिन्धु᳚म् । अ॒र्कैः । स्व॒स्तिम् । ई॒ळे॒ । स॒ख्याय᳚ । दे॒वीम् ।
उ॒भे इति᳚ । यथा᳚ । नः॒ । अह᳚नी॒ इति᳚ । नि॒॑पातः᳚ । उ॒षसा॒नक्ता᳚ । क॒र॒ता॒म् । अद᳚ब्धे॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पस्त्यां सर्वैर्गन्तव्यामदितिमदीनां देवमातरं तां देवीं सिन्धुं स्यन्दनशीलां नद्यभिमानिदेवीं स्वस्तिं सुखनिवासामेतन्नामिकां देवीं सख्यायानुकूल्यायार्कैर्मन्त्रैरीळे । स्तौ मि । उभे अहनी द्यावापृथिव्यौ यथा नोऽस्मान्निपातः नितरां पातः तथा स्तौ मि । उषासानक्ताहोरात्राभिमानिदेवते अदब्धे अदंभनीये करताम् । कुरुतां अभिमतमितिशेषः ॥ ३ ॥

4.55.4 समानपद
व्य᳚र्य॒मा वरु᳚णश्चेति॒ पन्था᳚मि॒षस्पति᳚ः सुवि॒तं गा॒तुम॒ग्निः ।
इन्द्रा᳚विष्णू नृ॒वदु॒ षु स्तवा᳚ना॒ शर्म᳚ नो यन्त॒मम᳚व॒द्वरू᳚थम् ॥
▶ पदपाठः (Word-by-word)
वि । अ॒र्य॒मा । वरु᳚णः । चे॒ति॒ । पन्था᳚म् । इ॒षः । पतिः᳚ । सु॒वि॒तम् । गा॒तुम् । अ॒ग्निः ।
इन्द्रा᳚विष्णू॒ इति᳚ । नृ॒॑वत् । ऊं॒ इति᳚ । सु । स्तवा᳚ना । शर्म᳚ । नः॒ । य॒न्त॒म् । अम᳚॑वत् । वरू᳚थम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अर्यमा देवोऽस्माकं पन्थां यज्ञादिमार्गं वि चेति । ज्ञापयति । तथा वरुणो वि चेति । इषोऽन्नस्य हविर्लक्षणस्य पतिः पालकोऽग्निः सुवितं सुखकरं गातुं गमनं मार्गं वा स्वर्गादेर्वि चेति । इन्द्राविष्णू सु सुष्ठु स्तवाना स्तूयमानौ नृवन्मनुष्योपेतं वरूथम् वरणीयममवद्बलोपेतं शर्म गृहं सुखं वा नोऽस्माकं यन्तम् । यच्छतम् ॥ ४ ॥

4.55.5
आ पर्व᳚तस्य म॒रुता॒मवां᳚सि दे॒वस्य᳚ त्रा॒तुर᳚व्रि॒ भग᳚स्य ।
पात्पति॒र्जन्या॒दंह᳚सो नो मि॒त्रो मि॒त्रिया᳚दु॒त न᳚ उरुष्येत् ॥
▶ पदपाठः (Word-by-word)
आ । पर्व᳚तस्य । म॒रुता᳚म् । अवां᳚सि । दे॒वस्य᳚ । त्रा॒तुः । अ॒व्रि॒ । भग᳚स्य ।
पात् । पतिः᳚ । जन्या᳚त् । अंह᳚सः । नः॒ । मि॒त्रः । मि॒त्रिया᳚त् । उ॒त । नः॒ । उ॒रु॒ष्ये॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पर्वतस्येन्द्रसखस्यैतन्नामकस्य देवस्य मरुतां च त्रातू रक्षकस्य भगस्य देवस्य चावांसि रक्षणान्याव्रि । आवृणे । किञ्च पतिर्वरुणो देवो जन्याज्जनसम्बन्धादंहसः पापात् नोऽस्मान्पात् । पातु । रक्षतु । उतापि मित्रश्च मित्रियात् मित्रभावेन न उरुष्येत् । रक्षतु ॥ ५ ॥

4.55.6 समानपद
नू रो᳚दसी॒ अहि᳚ना बु॒ध्न्ये᳚न स्तुवी॒त दे᳚वी॒ अप्ये᳚भिरि॒ष्टैः ।
स॒मु॒द्रं न सं॒चर᳚णे सनि॒ष्यवो᳚ घ॒र्मस्व᳚रसो न॒द्यो॒३॒᳚ अप᳚ व्रन् ॥
▶ पदपाठः (Word-by-word)
नु । रो॒द॒सी॒ इति᳚ । अहि᳚ना । बु॒ध्न्ये᳚न । स्तु॒वी॒त । दे॒वी॒ इति᳚ । अप्ये᳚भिः । इ॒ष्टैः ।
स॒मु॒द्रम् । न । स॒म्॑चर᳚णे । स॒नि॒ष्यवः᳚ । घ॒र्म॑स्व᳚रसः । न॒द्यः᳚ । अप᳚ । व्र॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे रोदसी द्यावा पृथिव्यौ युवामहिना बुध्न्येनाहिर्बुध्न्यनमकेन देवेन सह नु क्षिप्रमप्येभिरपनीयैरिष्ट्यैः कामैर्निमित्तभूतैः स्तुवीत । स्तुवे । सनिष्यवो धनानां सम्भक्तुमिच्छन्तः सञ्चरणे सञ्चराय समुद्रमध्यगमनाय समुद्रमिव । तं यथा स्तुवन्ति तद्वत् । यस्मादेते देवा घर्मस्वरसो दीप्तध्वनयो नद्यो नदीरप व्रन् । अपवृण्वन्तीति परोक्ष इव । अथवा ते देवा नदीरपवृण्वन्त्वित्याशीः । तस्मात् स्तुव इति सम्बन्धः ॥ ६ ॥

4.55.7
दे॒वैर्नो᳚ दे॒व्यदि᳚ति॒र्नि पा᳚तु दे॒वस्त्रा॒ता त्रा᳚यता॒मप्र᳚युच्छन् ।
न॒हि मि॒त्रस्य॒ वरु᳚णस्य धा॒सिमर्हा᳚मसि प्र॒मियं॒ सान्व॒ग्नेः ॥
▶ पदपाठः (Word-by-word)
दे॒वैः । नः॒ । दे॒वी । अदि᳚तिः । नि । पा॒तु॒ । दे॒वः । त्रा॒ता । त्रा॒य॒ता॒म् । अप्र᳚॑युच्छन् ।
न॒हि । मि॒त्रस्य᳚ । वरु᳚णस्य । धा॒सिम् । अर्हा᳚मसि । प्र॒॑मिय᳚म् । सानु᳚ । अ॒ग्नेः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अतितिर्देव्यदीना देवमाता देवैरन्यैर्मित्रादिभिः सह नोऽस्मान्नि पातु । पालयतु । तथा त्राता पालको देवः । इन्द्र इत्यर्थः । सोऽप्यप्रयुच्छन् अप्र्माद्यन् त्रायताम् । वयं च मित्रस्य वरुणस्याग्नेश्च सानु समुच्छ्रितं धासिमन्नं सोमादिलक्षणं प्रमियं हिंसितुं नह्यर्हामसि । आर्हामः । समर्था भवामः । किन्त्वनुष्ठानेन सम्वर्धितुमर्हाम इत्यर्थः ॥ ७ ॥

4.55.8
अ॒ग्निरी᳚शे वस॒व्य᳚स्या॒ग्निर्म॒हः सौभ᳚गस्य ।
तान्य॒स्मभ्यं᳚ रासते ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । ई॒शे॒ । व॒स॒व्य᳚स्य । अ॒ग्निः । म॒हः । सौभ᳚गस्य ।
तानि᳚ । अ॒स्मभ्य᳚म् । रा॒स॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निर्देवो वसव्यस्य धनसमूहस्येशे । ईष्टे दातुम् । तथाग्निर्महो महतः सौभगस्य सुभगत्वस्यापीशे । अतस्तानि धनानि सौभाग्यं चास्मभ्यं रासते । ददातु ॥ ८ ॥

4.55.9
उषो᳚ मघो॒न्या व᳚ह॒ सूनृ᳚ते॒ वार्या᳚ पु॒रु ।
अ॒स्मभ्यं᳚ वाजिनीवति ॥
▶ पदपाठः (Word-by-word)
उषः᳚ । म॒घो॒नि॒ । आ । व॒ह॒ । सूनृ᳚ते । वार्या᳚ । पु॒रु ।
अ॒स्मभ्य᳚म् । वा॒जि॒नी॒॑व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषो हे मघोनि धनवति हे सूनृते प्रियसत्यरूपवागभिमानिनि हे वाजिनीवत्यन्नवति देवि अस्मभ्यं वार्या वरणीयानि पुरु बहूनि धनान्या वह प्रापय ॥ ९ ॥

4.55.10
तत्सु नः᳚ सवि॒ता भगो॒ वरु᳚णो मि॒त्रो अ᳚र्य॒मा ।
इन्द्रो᳚ नो॒ राध॒सा ग᳚मत् ॥
▶ पदपाठः (Word-by-word)
तत् । सु । नः॒ । स॒वि॒ता । भगः᳚ । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा ।
इन्द्रः᳚ । नः॒ । राध᳚सा । आ । ग॒म॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

येन राधसा धनेन सह सविता भगो वरुनो मित्रोऽर्यमेन्द्रः प्रत्येकमा गमत् । आगच्छति यज्ञम् । तद्रधो धनं ते देवा नोऽस्मभ्यं सु सुष्ठु प्रयच्छन्त्विति शेषः ॥ १० ॥