श्रवणम्

4.55.5
आ पर्व᳚तस्य म॒रुता॒मवां᳚सि दे॒वस्य᳚ त्रा॒तुर᳚व्रि॒ भग᳚स्य ।
पात्पति॒र्जन्या॒दंह᳚सो नो मि॒त्रो मि॒त्रिया᳚दु॒त न᳚ उरुष्येत् ॥
▶ पदपाठः (Word-by-word)
आ । पर्व᳚तस्य । म॒रुता᳚म् । अवां᳚सि । दे॒वस्य᳚ । त्रा॒तुः । अ॒व्रि॒ । भग᳚स्य ।
पात् । पतिः᳚ । जन्या᳚त् । अंह᳚सः । नः॒ । मि॒त्रः । मि॒त्रिया᳚त् । उ॒त । नः॒ । उ॒रु॒ष्ये॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पर्वतस्येन्द्रसखस्यैतन्नामकस्य देवस्य मरुतां च त्रातू रक्षकस्य भगस्य देवस्य चावांसि रक्षणान्याव्रि । आवृणे । किञ्च पतिर्वरुणो देवो जन्याज्जनसम्बन्धादंहसः पापात् नोऽस्मान्पात् । पातु । रक्षतु । उतापि मित्रश्च मित्रियात् मित्रभावेन न उरुष्येत् । रक्षतु ॥ ५ ॥