चतुर्थं मण्डलम् - सूक्तम् 42

10 ऋचः

ऋषिः: त्रसदस्युः पौरुकुत्स्यः देवता: त्रसदस्युः छन्दः: त्रिष्टुप्

सूक्तम् 4.42 - सम्पूर्णम्

1 / 10
ऋक्: 4.42.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
4.42.1
मम᳚ द्वि॒ता रा॒ष्ट्रं क्ष॒त्रिय᳚स्य वि॒श्वायो॒र्विश्वे᳚ अ॒मृता॒ यथा᳚ नः ।
क्रतुं᳚ सचन्ते॒ वरु᳚णस्य दे॒वा राजा᳚मि कृ॒ष्टेरु᳚प॒मस्य᳚ व॒व्रेः ॥
▶ पदपाठः (Word-by-word)
मम᳚ । द्वि॒ता । रा॒ष्ट्रम् । क्ष॒त्रिय᳚स्य । वि॒श्व॑आ᳚योः । विश्वे᳚ । अ॒मृताः᳚ । यथा᳚ । नः॒ ।
क्रतु᳚म् । स॒च॒न्ते॒ । वरु᳚णस्य । दे॒वाः । राजा᳚मि । कृ॒ष्टेः । उ॒प॒मस्य᳚ । व॒व्रेः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मम द्वितेति दशर्चं दशमं सूक्तम् । पुरुकुत्सस्य पुत्रस्त्रसदस्यू राजर्षिः । आद्यासु षट्स्वात्मनः स्तुत्यत्वादात्मा देवता । अवशिष्तानां चतसृणामिन्द्रावरुणौ देवता । त्रिष्टुप् छन्दः । अत्रानुक्रमणिका । मम द्विता दश त्रिसदस्युः पौरुकुत्स्यः षळाद्या अत्मस्तव इति । उक्तो विनियोगः पूर्वसूक्ते ॥

क्षत्रियस्य क्षत्रियजात्युत्पन्नस्य विश्वायोः कृत्स्नमनुष्याधीशस्य । ममेत्यात्मनो निर्देशः । द्विता क्षितिस्वर्गभेदेन द्वित्वापन्नं राष्ट्रम् । मम त्रसदस्योर्विश्वे सर्वेऽमृता देवा यथा नोऽस्माकं भवन्ति तथा राष्ट्रं प्रजाश्चेत्यर्थः । वरुणस्य वारकस्य वरुणात्मनो वा कृष्टेर्मनुश्यस्य तद्वतो वा उपमस्य । अन्तिकनामैतत् । सर्वेषामन्तिकतमस्य वव्रेः । रूपनामैतत् । रूपवतो मम क्रतुं कर्म सचन्ते । सेवन्ते देवाः सर्वेऽपि । अहं च राजामि । राजतिरैश्वर्यकर्मा । सर्वेश्वरो भवामि । यद्वा । उपमस्य वव्रेः कृष्ते राजामीति योज्यं ॥ १ ॥

4.42.2
अ॒हं राजा॒ वरु᳚णो॒ मह्यं॒ तान्य᳚सु॒र्या᳚णि प्रथ॒मा धा᳚रयन्त ।
क्रतुं᳚ सचन्ते॒ वरु᳚णस्य दे॒वा राजा᳚मि कृ॒ष्टेरु᳚प॒मस्य᳚ व॒व्रेः ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । राजा᳚ । वरु᳚णः । मह्य᳚म् । तानि᳚ । अ॒सु॒र्या᳚णि । प्र॒थ॒मा । धा॒र॒य॒न्त॒ ।
क्रतु᳚म् । स॒च॒न्ते॒ । वरु᳚णस्य । दे॒वाः । राजा᳚मि । कृ॒ष्टेः । उ॒प॒मस्य᳚ । व॒व्रेः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहमेव च राजा वरुणो भवामि । मह्यं मदर्थमेव प्रथमा मुख्यानि तानि प्रसिद्धान्यसुर्याण्यसुरविघातकानि बलानि धारयन्त । अधारयन्देवाः । शिष्तम् गतं ॥ २ ॥

4.42.3 समानपद
अ॒हमिन्द्रो॒ वरु᳚ण॒स्ते म᳚हि॒त्वोर्वी ग᳚भी॒रे रज᳚सी सु॒मेके᳚ ।
त्वष्टे᳚व॒ विश्वा॒ भुव᳚नानि वि॒द्वान्त्समै᳚रयं॒ रोद᳚सी धा॒रयं᳚ च ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । इन्द्रः᳚ । वरु᳚णः । ते इति᳚ । म॒हि॒॑त्वा । उ॒र्वी इति᳚ । ग॒भी॒रे इति᳚ । रज᳚सी॒ इति᳚ । सु॒मेके॒ इति᳚ सु॒॑मेके᳚ ।
त्वष्टा᳚॑इव । विश्वा᳚ । भुव᳚नानि । वि॒द्वान् । सम् । ऐ॒र॒य॒म् । रोद᳚सी॒ इति᳚ । धा॒रय᳚म् । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहं त्रसदस्युरिन्द्र इन्द्रोऽप्यस्मि । अहं वरुणश्च । ते महित्वा महित्वेनोर्वी विस्तीर्णे गभीरे दुरवगाहे अवकाशवतौ वा सुमेके सुरूपे रजसी द्यावापृथिव्यौ ते अप्यहमेव । विद्वान् जानन्नहं त्वष्टेव प्रजापतिरिव विश्वा भुवनानि सर्वाणि भुतानि समैरयम् । संप्रैरयम् । रोदसी द्यावापृथिव्यौ धारयं च । धृतवानस्मि ॥ ३ ॥

4.42.4
अ॒हम॒पो अ᳚पिन्वमु॒क्षमा᳚णा धा॒रयं॒ दिवं॒ सद᳚न ऋ॒तस्य᳚ ।
ऋ॒तेन᳚ पु॒त्रो अदि᳚तेरृ॒तावो॒त त्रि॒धातु᳚ प्रथय॒द्वि भूम᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । अ॒पः । अ॒पि॒न्व॒म् । उ॒क्षमा᳚णाः । धा॒रय᳚म् । दिव᳚म् । सद᳚ने । ऋ॒तस्य᳚ ।
ऋ॒तेन᳚ । पु॒त्रः । अदि᳚तेः । ऋ॒त॑वा᳚ । उ॒त । त्रि॒॑धातु᳚ । प्र॒थ॒य॒त् । वि । भूम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहमेवोक्षमाणाः सिञ्चतीरपोऽपिन्वम् । असेचयम् । तथा ऋतस्योदकस्यादित्यस्य वा सदसे स्थाने निमित्ते सति दिवं द्युलोकं धारयम् । यद्वा । उदकाधारे स्थाने दिवमादित्यं धारयम् । अहमेव ऋतेनोदकेन निमित्तेनादितेः पुत्र रुतावाभूवम् । उतापि च भूम व्याप्तमाकाशं त्रिधातु त्रिप्रकारं वि विशेशेन प्रथयत् । मदर्धमेव क्षित्यादिलोकत्रयमकार्षीत्परमेश्वरः ॥ ४ ॥

4.42.5 समानपद
मां नर॒ः स्वश्वा᳚ वा॒जय᳚न्तो॒ मां वृ॒ताः स॒मर᳚णे हवन्ते ।
कृ॒णोम्या॒जिं म॒घवा॒हमिन्द्र॒ इय᳚र्मि रे॒णुम॒भिभू᳚त्योजाः ॥
▶ पदपाठः (Word-by-word)
माम् । नरः᳚ । सु॒॑अश्वाः᳚ । वा॒जय᳚न्तः । माम् । वृ॒ताः । स॒म्॑अर᳚णे । ह॒व॒न्ते॒ ।
कृ॒णोमि᳚ । आ॒जिम् । म॒घ॑वा᳚ । अ॒हम् । इन्द्रः᳚ । इय᳚र्मि । रे॒णुम् । अ॒भिभू᳚ति॑ओजाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मां मामेव स्वश्वाः शोभनाश्वा वाजयन्तः सङ्ग्राममिच्छन्तो नरो नेतारो भटाः । अनुगच्छन्तीति शेशः । मामेव व्रुताः सन्तः समरणे सङ्ग्रामे हवन्ते । आह्वयन्ति युद्धार्थम् । मघवा धनवानहमिन्द्रः सन्नाजिं कृणोमि । करोमि । अभिभूत्योजाः परेषामभिभाविबलोऽहं रेणुमियर्मि । प्रेरयामि ॥ ५ ॥

4.42.6 समानपद
अ॒हं ता विश्वा᳚ चकरं॒ नकि᳚र्मा॒ दैव्यं॒ सहो᳚ वरते॒ अप्र᳚तीतम् ।
यन्मा॒ सोमा᳚सो म॒मद॒न्यदु॒क्थोभे भ᳚येते॒ रज᳚सी अपा॒रे ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । ता । विश्वा᳚ । च॒क॒र॒म् । नकिः᳚ । मा॒ । दैव्य᳚म् । सहः᳚ । व॒र॒ते॒ । अप्र᳚ति॑इतम् ।
यत् । मा॒ । सोमा᳚सः । म॒मद᳚न् । यत् । उ॒क्था । उ॒भे इति᳚ । भ॒ये॒ते॒ इति᳚ । रज᳚सी॒ इति᳚ । अ॒पा॒रे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहं त्रसदस्युस्ता तानि प्रसिद्धानि विश्वा सर्वाणि चकरम् । अकार्शम् । अप्रतीतमप्रतिगतं मा मां दैव्यं सहो देवसम्बन्धि सहो बलं नकिर्वरते । नैव वारयति । यद्यस्मात्सोमासः सोमा मा मां ममदन् । अमदयन् । यच्चोक्था शस्त्राण्यपि ममदन् तस्मान्मत्तोऽपारे दूरपारे उभे रजसी द्यावापृथिव्यौ भयेते । चलतः ॥ ६ ॥

4.42.7
वि॒दुष्टे॒ विश्वा॒ भुव᳚नानि॒ तस्य॒ ता प्र ब्र᳚वीषि॒ वरु᳚णाय वेधः ।
त्वं वृ॒त्राणि᳚ शृण्विषे जघ॒न्वान्त्वं वृ॒ता{4} अ᳚रिणा इन्द्र॒ सिन्धू᳚न् ॥
▶ पदपाठः (Word-by-word)
वि॒दुः । ते॒ । विश्वा᳚ । भुव᳚नानि । तस्य᳚ । ता । प्र । ब्र॒वी॒षि॒ । वरु᳚णाय । वे॒धः॒ ।
त्वम् । वृ॒त्राणि᳚ । शृ॒ण्वि॒षे॒ । ज॒घ॒न्वान् । त्वम् । वृ॒तान् । अ॒रि॒णाः॒ । इ॒न्द्र॒ । सिन्धू᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इतः परमिन्द्रावरुनयोः स्तुतिः । हे वरुण तस्य ते । कर्मणि षष्ठी । तं त्वां विश्वा सर्वाणि ता तानि भुवन्ननि भूतजातानि विदुः । जानन्ति । हे वेधः । स्तोतृनामैतत् । हे स्तोतर्वरुणाय प्र ब्रवीषि । वरुणं स्तौषि । हे इन्द्र त्वं वृत्राणि वैरिणो जघन्वान् हतवानिति शृण्विषे । श्रूयवे । किञ्च हे इन्द्र त्वं वृतानाच्छन्नान् सिन्धून् स्यन्दनस्वभादानप्सङ्घानरिणाः । आगमयः ॥ ७ ॥

4.42.8
अ॒स्माक॒मत्र᳚ पि॒तर॒स्त आ᳚सन्त्स॒प्त ऋष᳚यो दौर्ग॒हे ब॒ध्यमा᳚ने ।
त आय᳚जन्त त्र॒सद᳚स्युमस्या॒ इन्द्रं॒ न वृ᳚त्र॒तुर᳚मर्धदे॒वम् ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म् । अत्र᳚ । पि॒तरः᳚ । ते । आ॒स॒न् । स॒प्त । ऋष᳚यः । दौः॒॑ग॒हे । ब॒ध्यमा᳚ने ।
ते । आ । अ॒य॒ज॒न्त॒ । त्र॒सद᳚स्युम् । अ॒स्याः॒ । इन्द्र᳚म् । न । वृ॒त्र॒॑तुर᳚म् । अ॒र्ध॒॑दे॒वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरुकुत्सस्य महिषी दौर्गहे बन्धनस्थिते । पत्यावराजकं दृष्त्वा राष्ट्र्रं पुत्रस्य सिष्सया । यदृच्छया समायातान् सप्तर्षीन्पर्यपूजयत् । ते च प्रीताः पुनः प्रोचुर्यजेन्द्रावरुणौ भृशम् । सा चेन्द्रावरुणाविष्ट्वात्रसदस्युमजीजनत् । इतिहासमिमं जानन्नृषिर्ब्रूते ऋचाविह । अथास्माकमत्रास्मिन्नराजके देशेऽस्यां पृथिव्यां वा पितरः पालयितार उत्पादकस्त आसन् । अभवन् । एते सप्तर्षयः प्रसिद्धा दौर्गहे दुर्गहस्य पुत्रे पुरुकुत्से बध्यमाने दृढं पाशैर्यस्मादस्या अस्यै पुरुकुत्सान्यै त्रसदस्युमायजन्त । प्रादुरिन्द्रावरुणयोरनुग्रहात् । कीदृशं तम् । वृत्रतुरं वृत्रस्य शत्रोर्हन्तारमर्धदेवं देवानामर्धे समीपे वर्तमानम् । यद्वा । देवनामर्धभूतमिन्द्रं न इन्द्रमिव स्थितं पुत्रं दत्तवन्तः । यत्सर्वेषामर्धमिन्द्रः प्रति तस्मादिन्द्रो देवतानां भूयिष्थभाक्तम इति तैत्तिरीयकम् । तै. सं. ५-४-८-३ ॥ ८ ॥

4.42.9 समानपद
पु॒रु॒कुत्सा᳚नी॒ हि वा॒मदा᳚शद्ध॒व्येभि᳚रिन्द्रावरुणा॒ नमो᳚भिः ।
अथा॒ राजा᳚नं त्र॒सद᳚स्युमस्या वृत्र॒हणं᳚ ददथुरर्धदे॒वम् ॥
▶ पदपाठः (Word-by-word)
पु॒रु॒॑कुत्सा᳚नी । हि । वा॒म् । अदा᳚शत् । ह॒व्येभिः᳚ । इ॒न्द्रा॒व॒रु॒णा॒ । नमः᳚॑भिः ।
अथ᳚ । राजा᳚नम् । त्र॒सद᳚स्युम् । अ॒स्याः॒ । वृ॒त्र॒॑हन᳚म् । द॒द॒थुः॒ । अ॒र्ध॒॑दे॒वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणौ पुरुकुत्साणि पुरुकुत्सस्य पत्नी ऋषिप्रेरिता वां युवामदाशद्धि । आप्रीणयत् खलु । हव्येभिर्हविर्भिर्नमोभिः स्तुतिभिश्च । अथ राजानं त्रसदस्युं वृत्रहणमर्धदेवमुक्तलक्शणं पुत्रमस्या अस्यै पुरुकुत्सान्ये ददथुः । दत्तवन्ताविति ॥ ९ ॥

4.42.10 समानपद
रा॒या व॒यं स᳚स॒वांसो᳚ मदेम ह॒व्येन᳚ दे॒वा यव᳚सेन॒ गावः᳚ ।
तां धे॒नुमि᳚न्द्रावरुणा यु॒वं नो᳚ वि॒श्वाहा᳚ धत्त॒मन᳚पस्फुरन्तीम् ॥
▶ पदपाठः (Word-by-word)
रा॒या । व॒यम् । स॒स॒॑वांसः᳚ । म॒दे॒म॒ । ह॒व्येन᳚ । दे॒वाः । यव᳚सेन । गावः᳚ ।
ताम् । धे॒नुम् । इ॒न्द्रा॒व॒रु॒णा॒ । यु॒वम् । नः॒ । वि॒श्वाहा᳚ । ध॒त्त॒म् । अन᳚प॑स्फुरन्तीम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

राया धनेन मदेम ससवांसो युवां सम्भक्तारो वयम् । हव्येन देवा मोदन्तु यवसेन च गावः । तां धेनुं प्रीणयित्रीं रयिं हे इन्द्रा वरुणौ विश्वाहा विश्वस्य हन्तारौ युवं युवां नोऽस्माकं धत्तम् । दत्तम् । कीदृशीम् । अनपस्फुरन्तीमनवहिंसिताम् । यद्वा । विश्वाहेत्यव्ययम् । सर्वदेत्यर्थः ॥ १० ॥