चतुर्थं मण्डलम् - सूक्तम् 5

15 ऋचः

ऋषिः: वामदेवो गौतमः देवता: वैश्वानरोग्निः छन्दः: त्रिष्टुप्

सूक्तम् 4.5 - सम्पूर्णम्

1 / 15
ऋक्: 4.5.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
4.5.1 समानपद
वै॒श्वा॒न॒राय᳚ मी॒ळ्हुषे᳚ स॒जोषा᳚ः क॒था दा᳚शेमा॒ग्नये᳚ बृ॒हद्भाः ।
अनू᳚नेन बृह॒ता व॒क्षथे॒नोप᳚ स्तभायदुप॒मिन्न रोधः᳚ ॥
▶ पदपाठः (Word-by-word)
वै॒श्वा॒न॒राय᳚ । मी॒ळ्हुषे᳚ । स॒॑जोषाः᳚ । क॒था । दा॒शे॒म॒ । अ॒ग्नये᳚ । बृ॒हत् । भाः ।
अनू᳚नेन । बृ॒ह॒ता । व॒क्षथे᳚न । उप᳚ । स्त॒भा॒य॒त् । उ॒प॒॑मित् । न । रोधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

चतुर्थे मण्दले प्रथमेऽनुवाके दह्स सूक्तानि । वैश्वानरायेति पञ्चदशर्चं पञ्चमं सूक्तं वामदेवस्यार्षं त्रैष्टुभं ऐश्वानराग्निं देवताकम् । अत्रानुक्रमणिका । वैश्वानराय वैश्वानरीयमिति । विनियोगो लैङ्गिकः ॥

सजोषाः सजोषसः समानप्रीतियुक्ता वयमृत्विग्यजमाना वैश्वानराय विश्वानरसंबन्धिन एतन्नामकाय मीळ्हुषेऽभिमतवृष्ट्यादिसेक्त्रे बृहद्बृहशे महते भा भासमानायाग्नये देवाय कथा कथं केन प्रकारेण दाशेम दद्याम । सामर्थ्याद्धविरिति गम्यते । अथवा बृहद्भा इत्युत्तरत्र योज्यम् । कथा दाशेमेत्युक्तम् । किं तत्राधिक्यमिति तदुच्यते । योऽग्निर्बृहन्माहान्भा भासमानाश्च सन् अनूनेनाविकलेन संपूर्णेन अग्त एव बृहता प्रभूतेन वक्षथेन वोढव्येन स्वशरिरेणोपस्तभायत् । उपस्तभ्नाति । सामर्थ्याद्द्यामिति शेशः । द्युलोकं प्राप्नोतीत्यर्थः । तत्र दृष्टान्तः । उपमिन्न रोधः । उप समीपे मीयते क्षिप्यते इत्युपमित् स्थूणा । सा यथा तृणाच्छादनादिनिरोधकं वंशादिकमुपस्तभ्नाति तद्वत् । यद्वा । तक्षथेनोक्थलक्षनेन फलादिवाहकेन स्तोत्रेण सह द्युलोकमुपस्तभायत् । स्तभायत् । स्तन्भुः सौत्रो धातुः । लङि छन्दसि शायजपीति व्यत्ययेनाहावपि शायजादेशः । बहुलं छन्दसीत्यडागमाभावः । किमिव । उपमिन्न रोधः । उप समीपे मीयत इत्युपमिदुदकम् । कूलमिव ॥ १ ॥

4.5.2
मा नि᳚न्दत॒ य इ॒मां मह्यं᳚ रा॒तिं दे॒वो द॒दौ मर्त्या᳚य स्व॒धावा᳚न् ।
पाका᳚य॒ गृत्सो᳚ अ॒मृतो॒ विचे᳚ता वैश्वान॒रो नृत᳚मो य॒ह्वो अ॒ग्निः ॥
▶ पदपाठः (Word-by-word)
मा । नि॒न्द॒त॒ । यः । इ॒माम् । मह्य᳚म् । रा॒तिम् । दे॒वः । द॒दौ । मर्त्या᳚य । स्व॒॑धावा᳚न् ।
पाका᳚य । गृत्सः᳚ । अ॒मृतः᳚ । वि॑चे᳚ताः । वै॒श्वा॒न॒रः । नृ॑त᳚मः । य॒ह्वः । अ॒ग्निः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे होत्रादयोऽमुं वैश्वानरमग्निं मा निन्दत । निन्दां मा कुरुत । स्तुतेत्यर्थः । यो देवो दीप्यमानोऽग्निः स्वधावानस्मद्दत्तेन हविर्लक्षणेनान्नेन तद्वान् सन् मर्त्याय मरणधर्माय पाकाय परिपक्वप्रज्ञाय मह्यं यौअमानायेमामिदानीं दीयमानप्रकारां रातिं धनं ददौ । दत्तवान् । स विशेश्यते । ग्रुत्सो मेधावी । मेधाव्नामैतत् । अमृतोऽमरणस्वभावो विचेता विशिष्टप्रज्ञो वैश्वानरो वैश्वर्नरैराहवनीयादिरूपेण नीयमानो नृतमो नेतृतमः फलादीनां यह्वो महान् । महन्नामैतत् । अग्निरङ्गनादिगुणविशिष्टः । तादृशमग्निं स्तुतेति भावः ॥ २ ॥

4.5.3
साम᳚ द्वि॒बर्हा॒ महि᳚ ति॒ग्मभृ᳚ष्टिः स॒हस्र᳚रेता वृष॒भस्तुवि᳚ष्मान् ।
प॒दं न गोरप᳚गूळ्हं विवि॒द्वान॒ग्निर्मह्यं॒ प्रेदु᳚ वोचन्मनी॒षाम् ॥
▶ पदपाठः (Word-by-word)
साम᳚ । द्वि॒॑बर्हाः᳚ । महि᳚ । ति॒ग्म॑भृ᳚ष्टिः । स॒हस्र᳚॑रेताः । वृ॒ष॒भः । तुवि᳚ष्मान् ।
प॒दम् । न । गोः । अप᳚॑गूळ्हम् । वि॒वि॒द्वान् । अ॒ग्निः । मह्य᳚म् । प्र । इत् । ऊं॒ इति᳚ । वो॒च॒त् । म॒नी॒षाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्विबर्हा द्वयोर्मध्यमोत्तमयोः स्थानयोः परिवृढस्तिग्मभृष्टिस्तीक्ष्णतेजाः सहस्ररेता बहुविधहिरण्यरेतस्कः रेतः शब्दः सारवाची । प्रभूतसारो वा । वृषभो वर्षिता कामानां तुविष्मान्बहुधन ईदृशोऽयमग्निरत्यन्तगोपितं गोः पदं न नष्टाया गोः पदमिवापगूळ्ःअमत्यन्तरहस्यम् । मनीशाशब्दो ज्ञानवाची सन्नत्र ज्ञातव्ये वर्तते । मनीषां ज्ञातव्यं महि महत्पूज्यं सामास्मदभिमतं स्तोत्रं विविद्वान् विशेषेण जानन् प्रेदु वोचत् । प्रैव ब्रवीतु ॥ ३ ॥

4.5.4 समानपद
प्र ता{4} अ॒ग्निर्ब᳚भसत्ति॒ग्मज᳚म्भ॒स्तपि᳚ष्ठेन शो॒चिषा॒ यः सु॒राधा᳚ः ।
प्र ये मि॒नन्ति॒ वरु᳚णस्य॒ धाम᳚ प्रि॒या मि॒त्रस्य॒ चेत᳚तो ध्रु॒वाणि᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । तान् । अ॒ग्निः । ब॒भ॒स॒त् । ति॒ग्म॑ज᳚म्भः । तपि᳚ष्ठेन । शो॒चिषा᳚ । यः । सु॒॑राधाः᳚ ।
प्र । ये । मि॒नन्ति᳚ । वरु᳚णस्य । धाम᳚ । प्रि॒या । मि॒त्रस्य᳚ । चेत᳚तः । ध्रु॒वाणि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निः सुराधाः शोभनधनः स तग्मजम्भस्तीक्ष्णदंष्ट्रः सन् तपिष्थेन शोचिषातिशयेन शत्रूणां तापकेन तेजसा तान्वक्ष्यमानान् द्वेष्टॄन्प्र बभसत् । प्रकर्षेण भर्तयतु । दहत्वित्यर्थः । भस भर्त्सनदीप्त्योः । लेटीतश्च लोप इतीकारलोपः । लेटोऽडाटावित्यडागमः । तानित्युक्तं कानित्याह । ये द्वेष्टारश्चेततो जानतः । एतदुभयविशेषणम् । मित्रस्य वरुणस्य च प्रिया प्रियाणि ध्रुवाणि स्थिराणि धाम धामानि तेजः स्थानानि कर्माणि वा प्र मिनन्ति । प्रकर्षेण हिंसन्ति । मीञ् हिंसायाम् । मीनातेर्निगम इति ह्रस्वत्वम् । विकरणस्वरः ॥ ४ ॥

4.5.5 समानपद
अ॒भ्रा॒तरो॒ न योष᳚णो॒ व्यन्त᳚ः पति॒रिपो॒ न जन᳚यो दु॒रेवा᳚ः ।
पा॒पास॒ः सन्तो᳚ अनृ॒ता अ᳚स॒त्या इ॒दं प॒दम᳚जनता गभी॒रम् ॥
▶ पदपाठः (Word-by-word)
अ॒भ्रा॒तरः᳚ । न । योष᳚णः । व्यन्तः᳚ । प॒ति॒॑रिपः᳚ । न । जन᳚यः । दुः॒॑एवाः᳚ ।
पा॒पासः᳚ । सन्तः᳚ । अ॒नृ॒ताः । अ॒स॒त्याः । इ॒दम् । प॒दम् । अ॒ज॒न॒त॒ । ग॒भी॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभ्रातरो भ्रात्रादिबन्धुरहिता योषणो न गतभर्तृका योशित इव । वाषपूर्वस्य निगम इति विकल्पनाद्दीर्घाभावः । ता यथा भर्तृगृहात्पितृगृहं प्रत्यायन्ति तद्वद्व्यन्तो गच्छन्तः । यज्ञादीनपहायामार्ते वर्तमाना इत्यर्थः । तथा पतिरिपो न जनयः पतिद्वेषिण्यः स्त्रिय इव दुरेवा दुष्टगतयो दुराचारा अत एव पापासः पापाः सन्तोऽनृता मानससत्यरहिता असत्या वाचिकसत्यरहिता मनसा वाचाग्निमभजमाना इदं पापिभिरनुभूयमानतया प्रसिद्धं गभीरमगाधं पदं नरकस्थानमजनत । अजनयन्त । उत्पादयन्ति । लङि जनेरन्तर्भावितण्यर्थाद्व्यत्ययेनैकवचनं ॥ ५ ॥

4.5.6
इ॒दं मे᳚ अग्ने॒ किय᳚ते पाव॒कामि᳚नते गु॒रुं भा॒रं न मन्म᳚ ।
बृ॒हद्द᳚धाथ धृष॒ता ग᳚भी॒रं य॒ह्वं पृ॒ष्ठं प्रय᳚सा स॒प्तधा᳚तु ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । मे॒ । अ॒ग्ने॒ । किय᳚ते । पा॒व॒क॒ । अमि᳚नते । गु॒रुम् । भा॒रम् । न । मन्म᳚ ।
बृ॒हत् । द॒धा॒थ॒ । धृ॒ष॒ता । ग॒भी॒रम् । य॒ह्वम् । पृ॒ष्ठम् । प्रय᳚सा । स॒प्त॑धा᳚तु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पावक शोधकाग्ने कियतेऽत्यल्पाय गुरं भारं न वोढुमशक्यं भारमिव । तं यथा धर्तुमसहमानः पातयति तद्वत्त्वदीयं कर्मामिनतेऽहिंसतेऽत्यजते मे मह्यमिदं ज्ञातव्यत्वेन प्रसिद्धं बृअह्त्प्रभूतं मन्म मननीयं धनं दधाथ । देहि । तदेव विशेष्यते । धृशता शत्रूणां धर्षकेण प्रयसा । अन्ननामैतत् । अन्नेन युक्तं गभीरमन्यैरनवगाह्यं यह्वं महत्पृष्ठं स्प्रष्टुं योग्यं सप्तधातु ग्राम्यारण्यभेदेन सप्तप्रकारम् । सप्त ग्राम्याः पशवः सप्तारण्याः । तै. सं. ७-२-२ । इति श्रुतेः । ईदृग्धनं देहीत्यर्थः । गुरुं भारं न अन्यदीयं भारं यथान्यस्मै ददाति तद्वदस्माकं दातव्यं धनं देहीति वा योज्यं ॥ ६ ॥

4.5.7
तमिन्न्वे॒३॒᳚व स᳚म॒ना स᳚मा॒नम॒भि क्रत्वा᳚ पुन॒ती धी॒तिर᳚श्याः ।
स॒सस्य॒ चर्म॒न्नधि॒ चारु॒ पृश्ने॒रग्रे᳚ रु॒प आरु᳚पितं॒ जबा᳚रु ॥
▶ पदपाठः (Word-by-word)
तम् । इत् । नु । ए॒व । स॒म॒ना । स॒मा॒नम् । अ॒भि । क्रत्वा᳚ । पु॒न॒ती । धी॒तिः । अ॒श्याः॒ ।
स॒सस्य᳚ । चर्म᳚न् । अधि᳚ । चारु᳚ । पृश्नेः᳚ । अग्ने᳚ । रु॒पः । अरु᳚पितम् । जबा᳚रु ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निविद्युदादित्यास्त्रयोऽपि मतभेदेन वैश्वानरशब्दाभिधेया इति । नि. ७-२३ । यस्केनोक्तत्वादत्रादित्यात्मना वैश्वानरः स्तूयते । तमित्तमेव वैश्वानरं द्युस्थानं समानं सर्वेशामेकरूपं समना सदृशी तद्योग्या पुनत्यस्मान् शोधयित्री धीतिर्मतिरस्मदीया स्तुतिः क्रत्वा तदुचीतेन कर्मणा न्वेन क्षिप्रमेवाश्याः अभिप्राप्नुयात् । भजेदित्यर्थः अश्नोतेर्लिङि बहुलं छन्दसीति विकरणस्य लुक् । व्यत्ययेन परस्मै पदं मध्यमपुरुषत्वं च । पूर्वत्र तच्छब्दश्रुतेर्यच्छब्दोऽध्याहार्यः । यस्य द्युस्थानस्य वैश्वानरस्य जबारु जवमानरोहि जरमाणरोहि वा चारु दीप्तं मण्दलम् । जबारु जरमाणरोहीति वा जवमानरोहीति वेति यास्कः । नो. ६-१७ । अग्रे पुरस्तात्पुर्वस्यां दिशि रूपः । आरोपयति स्वात्मनि सस्यादीनि रुबिति भूमिरुच्यते । तस्याः सकाशात्ससस्य । लुप्तोपममेतत् । स्वपत इव निश्चलस्य पृश्नेः । द्युनामैतत् स्वः पृश्निरिति द्युलोकादित्ययोः साधारणनामसु पाठात् । ज्योतिरादिभिः स्पृश्यमानस्य द्युलोकस्याधि उपरि चर्मन् चर्मणे चरणाय । चरेरौणादिको मनिन् । सुपां सुलुगिति चतुर्थ्या लुक् । आरुपितमारोपितं देवैः तमश्या इति पूर्वत्रान्वयः ॥ ७ ॥

4.5.8
प्र॒वाच्यं॒ वच᳚स॒ः किं मे᳚ अ॒स्य गुहा᳚ हि॒तमुप᳚ नि॒णिग्व᳚दन्ति ।
यदु॒स्रिया᳚णा॒मप॒ वारि᳚व॒ व्रन्पाति᳚ प्रि॒यं रु॒पो अग्रं᳚ प॒दं वेः ॥
▶ पदपाठः (Word-by-word)
प्र॒॑वाच्य᳚म् । वच᳚सः । किम् । मे॒ । अ॒स्य । गुहा᳚ । हि॒तम् । उप᳚ । नि॒णिक् । व॒द॒न्ति॒ ।
यत् । उ॒स्रिया᳚णाम् । अप᳚ । वाः॑इ᳚व । व्रन् । पाति᳚ । प्रि॒यम् । रु॒पः । अग्र᳚म् । प॒दम् । वेरिति॒ वेः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मे मदीयास्यास्य वक्ष्यमाणस्य वचसो वाक्यस्य किं प्रवाच्यमस्ति । तथ्यमेवोच्यत इत्यर्थः । किं तद्वच इत्युच्यते । उस्रियाणाम् । गोनामैतत् । क्शीराद्युत्स्रावीणीनां गवां सम्बन्धि यत्क्षीरं वारिवोदकमिव तद्यथा सेकेनाविष्कुर्वन्ति तथाप वर्न् । अपवृण्वन्ति । दोग्धारो निणिक् । नितरां नेनेक्ति शोधयतिति निणिक् क्षीरमुच्यते । तादृक् क्षीरमनेन वैश्वानरेण गुहा गुहायामुप हितमुपनिहितं वदन्ति वेत्तारः । किञ्चायं वेर्व्याप्ताया रुपो भूम्याः प्रियं सर्वेषामाधारत्वेन प्रियभूतमग्रं श्रेष्ठं पदं स्थानं पाति । रक्षति ॥ ८ ॥

4.5.9
इ॒दमु॒ त्यन्महि᳚ म॒हामनी᳚कं॒ यदु॒स्रिया॒ सच᳚त पू॒र्व्यं गौः ।
ऋ॒तस्य᳚ प॒दे अधि॒ दीद्या᳚नं॒ गुहा᳚ रघु॒ष्यद्र᳚घु॒यद्वि᳚वेद ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । ऊं॒ इति᳚ । त्यत् । महि᳚ । म॒हाम् । अनी᳚कम् । यत् । उ॒स्रिया᳚ । सच᳚त । पू॒र्व्यम् । गौः ।
ऋ॒तस्य᳚ । प॒दे । अधि᳚ । दीद्या᳚नम् । गुहा᳚ । र॒घु॒॑स्यत् । र॒घु॒॑यत् । वि॒वे॒द॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदमु इदमेव त्यत्प्रसिद्धं महि महत्पूज्यं महां महतां देवानामनीकं समूहरूपं सूर्यमण्दलं वैश्वानर एवेति शेषः । पूर्व्यं पूर्वकालीनं पूरकं वा यन्मण्डलमुस्रिया क्षीराद्युत्स्राविणी गौरग्निहोत्राद्यर्थं सचत । सेवते । ऋतस्योदकस्य पदे स्थानेऽन्तरिक्षेऽध्यधिकम् । यद्वा । अधीति सप्तम्यर्थानुवादः । दीद्यानं द्योतमानं गुहा गुहायां रघुष्यत् शीघ्रं स्यन्दमानं रघुयत् शीघ्रं गच्छत्सूर्यमण्दलं विवेद । वैश्वानरमेवेति ज्ञातवानस्मि ॥ ९ ॥

4.5.10
अध᳚ द्युता॒नः पि॒त्रोः सचा॒साम᳚नुत॒ गुह्यं॒ चारु॒ पृश्ने᳚ः ।
मा॒तुष्प॒दे प᳚र॒मे अन्ति॒ षद्गोर्वृष्ण᳚ः शो॒चिष॒ः प्रय᳚तस्य जि॒ह्वा ॥
▶ पदपाठः (Word-by-word)
अध᳚ । द्यु॒ता॒नः । पि॒त्रोः । सचा᳚ । आ॒सा । अम᳚नुत । गुह्य᳚म् । चारु᳚ । पृश्नेः᳚ ।
मा॒तुः । प॒दे । प॒र॒मे । अन्ति᳚ । सत् । गोः । वृष्णः᳚ । शो॒चिषः᳚ । प्र॑य᳚तस्य । जि॒ह्वा ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध अथ द्युतानो दीप्यमानः पित्रोर्द्यावापृथिव्योः सचा सह मध्ये व्याप्तः सन् पृश्नेर्गोः सम्बन्धि चारु रमणीयं गुह्यमूधसि निगूढं पय असास्वकीयेनास्येनामनुत । पानायाबुध्यत । उक्तमेवार्थं विवृणोति । मातुः क्षीरादिनिर्मात्र्या गोः परमे पद उत्खृष्टे स्थान ऊधोलक्षणेऽन्ति सत् समीपे विद्यमानं क्षीरं वृष्णः फलानां वर्षितुः शोचिषो दीप्तस्य प्रयतस्याहवनीयादिरूपेण नियतस्य वैश्वानरस्य जिह्वा पातुमिच्छतीति शेषः ॥ १० ॥

4.5.11
ऋ॒तं वो᳚चे॒ नम᳚सा पृ॒च्छ्यमा᳚न॒स्तवा॒शसा᳚ जातवेदो॒ यदी॒दम् ।
त्वम॒स्य क्ष᳚यसि॒ यद्ध॒ विश्वं᳚ दि॒वि यदु॒ द्रवि᳚णं॒ यत्पृ᳚थि॒व्याम् ॥
▶ पदपाठः (Word-by-word)
ऋ॒तम् । वो॒चे॒ । नम᳚सा । पृ॒च्छ्यमा᳚नः । तव᳚ । आ॒॑शसा᳚ । जा॒त॒॑वे॒दः॒ । यदि᳚ । इ॒दम् ।
त्वम् । अ॒स्य । क्ष॒य॒सि॒ । यत् । ह॒ । विश्व᳚म् । दि॒वि । यत् । ऊं॒ इति᳚ । द्रवि᳚णम् । यत् । पृ॒थि॒व्याम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहं यजमानो नमसा नमस्कारेण सह पृच्छ्यमानोऽन्यैरनुयुज्यमानः सन् ऋतं वोचे । सत्यं ब्रविमि । किं तदित्युच्यते । हे जातवेदो जातानां वेदितर्जातप्रज्ञ वाग्ने तवाशसा त्वत्स्तुत्या साधनेन यदीदं धनं लब्धमस्माभिः स्यात् अस्य धनस्य त्वं क्षयसि । त्वमेवेश्वरो भवसि । तस्य धनस्य यज्ञादिद्वाराग्न्यर्थत्वादिति भावः । अत्यल्पमिदमुक्तम् । युद्ध विश्वं यत्खलु कृत्स्नं धनमस्ति तस्यापीशिषे । विश्वमिति सामान्येन यदुक्तं तदेव विशदयति । दिवि द्युलोके यदु द्रविणं यदेव धनं यच्च पृथिव्यां धनं तस्य सर्वस्य त्वमीश्वरो भवसि । यज्ञार्थं द्रव्यमुत्पन्नमिति स्मरणात् । अग्निव्यतिरेकेण यज्ञा सम्भवादिति भावः ॥ ११ ॥

4.5.12
किं नो᳚ अ॒स्य द्रवि᳚णं॒ कद्ध॒ रत्नं॒ वि नो᳚ वोचो जातवेदश्चिकि॒त्वान् ।
गुहाध्व᳚नः पर॒मं यन्नो᳚ अ॒स्य रेकु᳚ प॒दं न नि᳚दा॒ना अग᳚न्म ॥
▶ पदपाठः (Word-by-word)
किम् । नः॒ । अ॒स्य । द्रवि᳚णम् । कत् । ह॒ । रत्न᳚म् । वि । नः॒ । वो॒चः॒ । जा॒त॒॑वे॒दः॒ । चि॒कि॒त्वान् ।
गुहा᳚ । अध्व᳚नः । प॒र॒मम् । यत् । नः॒ । अ॒स्य । रेकु᳚ । प॒दम् । न । नि॒दा॒नाः । अग᳚न्म ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वमन्त्रेण यस्य धनस्याग्निस्वामित्वमुक्तमस्य धनस्य किं द्रविणम् किं साधनभूतं नोऽस्मभ्यं दातव्यं धनमस्ति । कद्ध रत्नं किञ्च रमणीयं हितकरं धनमस्ति । तद्धनं हे जातवेदो जातधनाग्ने चिकित्वांश्चेतनवानभिज्ञस्त्वं नोऽस्मभ्यं विवोचः । विब्रूहि । यद्वा । किं दातव्यं द्रविणमस्ति । अस्य द्रविणराशेः कद्ध रत्नमिति योज्यम् । अस्याध्वनो धनप्राप्तिमार्गस्य यद्गुहा गुहायां निहितं गूढं परममुत्कृष्टं प्राप्तव्यमस्ति तदपि नोऽस्मभ्यं विवोचः । वयं रेकु रिक्तं पदं गन्तव्यं स्थानं गृहादिकं निदाना अन्यैर्निन्द्यमानाः । कर्मणि कर्तृप्रत्ययः । नागन्म । न प्राप्नुमः ॥ १२ ॥

4.5.13
का म॒र्यादा᳚ व॒युना॒ कद्ध᳚ वा॒ममच्छा᳚ गमेम र॒घवो॒ न वाज᳚म् ।
क॒दा नो᳚ दे॒वीर॒मृत᳚स्य॒ पत्नी॒ः सूरो॒ वर्णे᳚न ततनन्नु॒षासः᳚ ॥
▶ पदपाठः (Word-by-word)
का । म॒र्यादा᳚ । व॒युना᳚ । कत् । ह॒ । वा॒मम् । अच्छ᳚ । ग॒मे॒म॒ । र॒घवः᳚ । न । वाज᳚म् ।
क॒दा । नः॒ । दे॒वीः । अ॒मृत᳚स्य । पत्नीः᳚ । सूरः᳚ । वर्णे᳚न । त॒त॒न॒न् । उ॒षसः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

का मर्यादा का प्रीत्यादिव्यवस्था का च वयुना प्रज्ञानं पदार्थविषयम् कद्ध किं च वामं वननीयं पदार्थजातम् । एतत्सर्वमच्छ गमेम । अभिगच्छेम । तत्र दृष्टान्तः । रघवो न वाजम् । शीघ्रगामिनोऽश्वादयः सङ्ग्राममिव तद्वत् । कदा कस्मिन्काले नोऽस्माकं व्यवहाराय देवीर्देव्यो द्योतमाना अमृतस्या मरणधर्मस्यादित्यस्य पत्नीः पत्न्यः पालयित्र्यः सूरः प्रसवित्र्य उषासो वर्णेन प्रकाशेन ततनन् । विस्तारयेयुः । एवं सूर्यसम्बन्धिन उषसः स्तुत्या सर्वात्मनो वैश्वानरस्य स्तुतिरवगन्तव्या । तनोतेर्लेटि बहुलं छन्दसीति विकरणस्य श्लुः । द्विर्भावहलादिशेषौ ॥ १३ ॥

4.5.14
अ॒नि॒रेण॒ वच᳚सा फ॒ल्ग्वे᳚न प्र॒तीत्ये᳚न कृ॒धुना᳚तृ॒पासः᳚ ।
अधा॒ ते अ᳚ग्ने॒ किमि॒हा व᳚दन्त्यनायु॒धास॒ आस᳚ता सचन्ताम् ॥
▶ पदपाठः (Word-by-word)
अ॒नि॒रेण᳚ । वच᳚सा । फ॒ल्ग्वे᳚न । प्र॒तीत्ये᳚न । कृ॒धुना᳚ । अ॒तृ॒पासः᳚ ।
अध᳚ । ते । अ॒ग्ने॒ । किम् । इ॒ह । व॒द॒न्ति॒ । अ॒ना॒यु॒धासः᳚ । अस᳚ता । स॒च॒न्ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनिरेण । इरान्नम् । तद्रहितेन फल्ग्वेनोक्थेन प्रतीत्येन प्रतिगन्तव्येन । आरोह्येणेत्यर्थः । कृधुना ह्रस्वेन । कृध्विति ह्रस्वनाम कृधोको वम्रक इति तन्नामसूक्तत्वात् । एवं विधेन वचसातृपासोऽतृप्ता जनाः । अध अधुनेहास्मिन् लोके हे अग्ने ते त्वां किं वदन्ति । निर्हविष्केण वचसा न किञ्चिल्लभ्यत इत्यर्थः । किन्त्वनायुधासः । आयुधशब्दः साधनं लक्षयति । हविरादिसाधनरहितास्तेऽसता जुःखेन सचन्ताम् । सङ्गच्छन्तां ॥ १४ ॥

4.5.15
अ॒स्य श्रि॒ये स᳚मिधा॒नस्य॒ वृष्णो॒ वसो॒रनी᳚कं॒ दम॒ आ रु᳚रोच ।
रुश॒द्वसा᳚नः सु॒दृशी᳚करूपः क्षि॒तिर्न रा॒या पु᳚रु॒वारो᳚ अद्यौत् ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । श्रि॒ये । स॒म्॑इ॒धा॒नस्य᳚ । वृष्णः᳚ । वसोः᳚ । अनी᳚कम् । दमे᳚ । आ । रु॒रो॒च॒ ।
रुश᳚त् । वसा᳚नः । सु॒दृशी᳚क॑रूपः । क्षि॒तिः । न । रा॒या । पु॒रु॒॑वारः᳚ । अ॒द्यौ॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

समिधानस्य समिध्यमानस्य । कर्मणि कर्तृप्रत्ययः । वृष्णो वर्षितुः फलस्य वसोर्वासयितुरस्यग्नेरनीकं तेजः सङ्घो दमे यागगृह आ रुरोच । सर्वतो दीप्यते । किमर्थम् । शिये श्रेयसे यजमानानाम् । सोऽग्नी रुशत् । वर्नानामैतत् । दीप्तं तेजो वसान आच्छादयन् अत एव सुदृशीकरूपः सुष्ठु दर्शनीयरूपं पुरुवारो बहुभिरृत्विग्भिर्यजमानैर्वरणीयः सन्नद्यौत् । द्योतते । किमिव । रायाश्वादिधनेन क्षितिर्न राजादिरिव । क्षितिरिति मनुश्यनाम ॥ १५ ॥