श्रवणम्

4.5.11
ऋ॒तं वो᳚चे॒ नम᳚सा पृ॒च्छ्यमा᳚न॒स्तवा॒शसा᳚ जातवेदो॒ यदी॒दम् ।
त्वम॒स्य क्ष᳚यसि॒ यद्ध॒ विश्वं᳚ दि॒वि यदु॒ द्रवि᳚णं॒ यत्पृ᳚थि॒व्याम् ॥
▶ पदपाठः (Word-by-word)
ऋ॒तम् । वो॒चे॒ । नम᳚सा । पृ॒च्छ्यमा᳚नः । तव᳚ । आ॒॑शसा᳚ । जा॒त॒॑वे॒दः॒ । यदि᳚ । इ॒दम् ।
त्वम् । अ॒स्य । क्ष॒य॒सि॒ । यत् । ह॒ । विश्व᳚म् । दि॒वि । यत् । ऊं॒ इति᳚ । द्रवि᳚णम् । यत् । पृ॒थि॒व्याम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहं यजमानो नमसा नमस्कारेण सह पृच्छ्यमानोऽन्यैरनुयुज्यमानः सन् ऋतं वोचे । सत्यं ब्रविमि । किं तदित्युच्यते । हे जातवेदो जातानां वेदितर्जातप्रज्ञ वाग्ने तवाशसा त्वत्स्तुत्या साधनेन यदीदं धनं लब्धमस्माभिः स्यात् अस्य धनस्य त्वं क्षयसि । त्वमेवेश्वरो भवसि । तस्य धनस्य यज्ञादिद्वाराग्न्यर्थत्वादिति भावः । अत्यल्पमिदमुक्तम् । युद्ध विश्वं यत्खलु कृत्स्नं धनमस्ति तस्यापीशिषे । विश्वमिति सामान्येन यदुक्तं तदेव विशदयति । दिवि द्युलोके यदु द्रविणं यदेव धनं यच्च पृथिव्यां धनं तस्य सर्वस्य त्वमीश्वरो भवसि । यज्ञार्थं द्रव्यमुत्पन्नमिति स्मरणात् । अग्निव्यतिरेकेण यज्ञा सम्भवादिति भावः ॥ ११ ॥